________________
उत्तराध्य.
बृहद्वृत्तिः
॥६१४॥
Jain Education In
यमो न संयमोऽसंयमः स च सप्तदशभेदः पृथिव्यादिविषयः, तथात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् यदुक्तम्- " पुढविदगअगणिमारुयवणप्फतीवितिचऊपणिंदिअज्जीवे । पेहोपेहपमज्जणपरिट्ठवणमणोवईकाए ॥१॥" तस्मिंश्च यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः । 'ब्रह्मणि' ब्रह्मचर्येऽष्टादशभेदभिन्ने, उक्तं हि - "ओरालियं च दिवं मणवयकाएण करणजोएणं । अणुमोयणकारावणकरणाणद्वारसावंभं ॥२॥" | ज्ञातानि - उदाहरणानि तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि तानि चोत्क्षिप्तज्ञातादीन्येकान्नविंशतिस्तेषु, यदुक्तम् - " उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५ । तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ॥ १ ॥ दावद ११ उदगणाए ११, मंडुक्को १३ तेयली इय १४ । णंदीफले १५ अवरकंका १६, आइण्णे १७ सुंस १८ पुंडरिए १९ ॥ १ ॥” 'स्थानेषु' आश्रयेषु कारणेष्वितियावत् कस्येत्याह-समाधिः - समाधानं ज्ञानादिषु चित्तै| काग्र्यं न समाधिरसमाधिस्तस्य, तानि च द्रुतं द्रुतं गमनादीनि विंशतिः, तथा च समवायाङ्गम् - "वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा - दवदवचारी यावि भवति १ अपमज्जचारी आवि भवति २ दुप्पमजियचारि यावि भवति ३
१ औदारिकं च दिव्यं मनोवचः कायेन करणयोगेन । अनुमोदनकारणकरणान्यष्टादशधाऽब्रह्म ॥ १ ॥ २ विंशतिरसमाधिस्थानानि प्रज्ञप्तानि तद्यथा- द्रुतं द्रुतं चारी चापि भवति १ अप्रमृज्यचारी चापि भवति २ दुष्प्रमृज्यचारी चापि भवति ३
For Private & Personal Use Only
चरणवि
ध्य० ३१
॥६१४॥
w.jainelibrary.org