________________
RECEROSCORECERESCACROSS
'एगंतंति सुब्ब्यत्ययाद् 'एकान्ते' जनेनानाकुले 'अनापाते' रूयाद्यापातरहिते 'स्त्रीपशुविवर्जिते' तत्रैव स्थितरूयादिरहिते शन्यागारादाविति भावः 'सयणासणसेवणय'त्ति सूत्रत्वात् शयनासनसेवनं विविक्तशयनासनं बाह्यं तप उच्यत इति शेषः, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, तथा चानेन विविक्तचर्या नाम सलीनतोक्ता भवति, यतस्तल्लक्षणमिदम्-"आरामुजाणाइसु थीपसुपंडगविवजिए ठाणं । फलगाईण य गहणं तह भणियं एसणिजाणं ॥१॥" शेषसंलीनतोपलक्षणं चासौ, प्राधान्याचास्या एव साक्षादभिधानं, प्राधान्यं चेन्द्रियादिसंलीनतोपकारित्वादस्याः, इयं चेत्थं चतुर्विधा, यत उक्तम्-"इंदियकसायजोगे पडुच संलीणया मुणेयवा। तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता श्रोत्रादिभिरिन्द्रियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणं, कषायसंलीनता तदुदयनिरोध उदीर्णविफलीकरणं च, योगसंलीनता च मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमिति सूत्रार्थः ॥ उक्तमेवार्थमुपसंहरनुत्तरग्रन्थसम्बन्धाभिधानायाह
एसो बाहिरगतवो, समासेण वियाहिओ। अभितरं तवं इत्तो, वुच्छामि अणुपुव्वसो॥२९॥ __ "एतत्' अनन्तरोक्तं बाह्यकं तपः समासेन व्याख्यातम् , आह-किं पुनरितो बाह्यात्तपसः फलमवाप्यते ?, उच्यते,
१ आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थाने । फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम् ।। १ ॥ २ इन्द्रियकषाययोगान | प्रतीत्य संलीनता ज्ञातव्या । तथा या विविक्तचर्या प्रज्ञप्ता वीतरागैः ॥ २॥
Jain Education Inted
For Private & Personel Use Only
jainelibrary.org