________________
उत्तराध्य.
तपोमार्गगत्य०३०
बृहद्वृत्तिः ॥६०७॥
परिवर्जनं' परिहरणं रसानां रस्यमानत्वेन 'तुः' पूरणे 'भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं नाम बाह्यं तप इति सूत्रार्थः ॥ उक्तो रसपरित्यागः, कायक्लेशमाह
ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ ___ स्थीयत एभिरिति स्थानानि-कायावस्थितिभेदा वीरासनं-यत्सिंहासनस्थितस्य तदपनयने तथैवावस्थानं तदादियेषां तानि वीरासनादिकानि, आदिशब्दाद्गोदोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात् , लोचाधुपलक्षणं चैतत् , तथाऽऽह-“वीरासण उक्कुडुगासणाइ लोयाइओ अविण्णेओ । कायकिलेसो संसारवासणिवेयहेउत्ति ॥१॥" 'जीवस्य जन्तोः 'तुः' अवधारणे भिन्नक्रमश्च, ततः सुखावहान्येव मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उग्राणि' दुरनुष्ठेयतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्त गम्यमानत्वाद्यतिभिः 'कायकिलेसं तमाहियन्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः' कथितस्तथैवेति शेषः, इह च संसार्यात्मनः कायानुगतत्वेन तत्क्लेशे यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः॥ एवं कायक्लेशमुक्त्वा संलीनतां वक्तुमाह
एगंतमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥ १ वीरासनोत्कटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १॥
॥६०७॥
।
एगत
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org