________________
************
K
'अट्टविहगोयरग्गं'ति प्राकृतत्वाद् अष्टविधः-अष्टप्रकारोऽयः-प्रधान आधाकर्मादिपरिहारेण स चासौ गौरिव। &चरणम्-उच्चावचकुलेष्वविशेषेण पर्यटनं गोचरश्चाष्टविधाग्रगोचरः, 'तुः' उत्तरभेदापेक्षया समुच्चये, तथा सप्तैवैषणा
अभिगृह्यन्त इत्यभिग्रहाः 'चः' समुच्चये ये अन्ये एतदतिरिक्ताः, ते किमित्याह-'भिक्खायरियमाहिय'त्ति सूत्रत्वेन भिक्षाचर्याविषयत्वात् भिक्षाचर्या वृत्तिस पापरनामिकाऽऽख्याताः, अत्र चाटावग्रगोचरभेदाःपेडादय एव शम्बूकावत या द्वैविध्याश्रयणतः तथा ऋज्व्याद्याश्चापरायाः प्रक्षेपात् , सप्तैषणाश्चेमाः-"संसट्ठमसंसठ्ठा उद्धड तह अप्पलेवडा
चेव। उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥" 'अभिग्रहाच' द्रव्यक्षेत्रकालभावविषयाः, तत्र द्रव्याभिग्रहाः-कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्य इत्यादयः क्षेत्राभिग्रहा:-देहलीजवयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः, कालाभिग्रहाः-सकलभिक्षाचरनिवर्तनावसरे मया पर्यटितव्यमित्यादयः, भावाभिग्रहास्तु-हसन् | रुदन बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः॥ (प्रन्थानम्१५०००)
अभिहिता भिक्षाचर्या, रसपरित्यागमाहमा खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविचजणं ॥२६॥
क्षीरं-दुग्धं दधि-तद्विकारः सर्पिः-घृतं तदादि, आदिशब्दाद् गुडपक्वान्नादिपरिग्रहः, 'प्रणीतम्' अतिबृहक पीयत / इति पानं-खजूररसादि भुज्यत इति भोजन-गलद्विन्द्वोदनादि अनयोः समाहारे पानभोजनं सोपस्कारत्वादेषां
*%%84%94%
A4%%***
AITAICHIARA
in Education in the
For Private Personal use only
Nw.jainelibrary.org