________________
तपोमार्गः
उत्तराध्य. बृहद्वृत्तिः ॥६०४॥
गत्य०३०
कालश्चेति क्षेत्रकालं तेन भावेन च पर्यायैश्चोपाधिभूतैः, सर्वत्र हेतौ तृतीया ॥ तत्र द्रव्यत आह-यो यस्य 'तुः' पूरणे आहारो-भोजनं ततः-खाहारादवमम्-ऊनं 'तुः' प्राग्वद् यः कुर्याद् भुजान इति शेषः, अयमत्र भावार्थ:पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः स्त्रियश्चाष्टाविंशतिकवलमानः, यत उक्तं-'बत्तीसं किरकवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥ कवलाण य परिमाणं कुक्कडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणमि छुहिज वीसत्थो ॥२॥" ततश्चैतन्मानादूनं यो भुते यत्तदोनित्यम-/ भिसम्बन्धात्तस्य 'एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदार्यमिति प्रक्रमः, एतच जघन्येनैकसिक्थु-यत्रैकमेव सिक्थु भुज्यते तदादि, आदिशब्दासिक्थुद्वयादारभ्य यावदेककवलभोजनम् , एवं चा-1 ल्पाहाराख्यमवमौदार्यमाश्रित्योच्यते, यत उपार्दादिषु तेषु कवलनवकादिमानमेवैतत् , तथा च सम्प्रदायः-"अप्पाहारोमोयरिया एककवलाहारोमोयरिया (जहण्णा अटकवला.) उक्कोसा सेसा अजहण्णुक्कोसा, अवढाहारोमोयरिया । (जहनिया नवकवला उक्कोसेणं बारस सेसा अजहन्नमणुक्कोसा" इत्यादि, एतद्भेदाभिधायिनी चेयं गाथा-"अप्पाहार १ अबढे २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ट १ दुवालस २ सोलस ३ चउवीस ४ तहेक्कतीसा य
१ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिर्भवेयुः कवलाः ॥१॥ कवलानां च परिमाणं | कुकुट्यण्डकप्रमाणमात्रमेव । यं वाऽविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥२॥
॥६०४॥
Jain Education iner
For Private & Personel Use Only
How.jainelibrary.org