________________
Jain Education Inter
॥ १ ॥” क्षेत्रावमौदर्यमाह – ग्रसति गुणान् गम्यो वाऽष्टादशानां कराणामिति ग्रामस्तस्मिन् नात्र करोऽस्तीति नकरं तस्मिन्, तथा राजाऽनया धीयत इति राजधानी - राज्ञः पीठिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्ननेक| विधभाण्डानीति निगमः - प्रभूततरवणिजां निवासोऽनयोः समाहारस्तस्मिंश्च, आकुर्वन्ति तस्मिन्नित्याकरो - हि रण्याद्युत्पत्तिस्थानं तस्मिन्, 'पलि' त्ति सुव्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली, नैरुक्तो विधिः, | वृक्षगहनाद्याश्रितः प्रान्तजननिवासस्तस्यां खेट्यन्ते - उत्रास्यन्तेऽस्मिन्नेव स्थितैः शत्रव इति खेटं - पांशुप्राकारपरिक्षिप्तम्, उक्तं हि - "खेडं पुण होइ धूलिपायारं " तस्मिन् कर्बेटं - कर्वटजनावासः, कुनगरमित्यर्थः, द्रोण्योनावो मुखमस्येति द्रोणमुखं- जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, पतन्ति तस्मिन् समस्तदिग्भ्यो जना | इति पत्तनं, तच्च जलपत्तनं यज्जलमध्यवर्त्ति, यथा काननद्वीपः, स्थलपत्तनं च निर्जल भूभागभावि यथा मथुरा, 'मडंब'त्ति | देशी पदं यस्य सर्वदिश्वर्द्धतृतीययोजनान्तर्ग्रामो नास्ति, समिति-भृशं वाध्यन्तेऽस्मिन् जना इति संबाधः - प्रभूतचातुर्वर्ण्यनिवासः, कर्वटादीनां चात्र समाहारद्वन्द्वस्तस्मिन् आ - समन्तात् श्राम्यन्ति - तपः कुर्वन्त्यस्मिन्नित्याश्रमः - तापसावसथादिस्तदुपलक्षितं पदं - स्थानमाश्रमपदं तस्मिन् विहारो - भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, 'संनिवेशे' यात्रादिसमायातजनावासे, समाजः - पथिकसमूहः घोषो - गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'चः' समुच्चये, स्थल्याम् - उच्चभूभागे सेना - चातुरङ्गबलसमूहः स्कन्धावारः स एवाशेपखेडाद्युप
For Private & Personal Use Only
jainelibrary.org