SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५१९॥ Jain Education 'स्थाने' ऊर्द्धस्थाने 'णिसीयणि'त्ति 'निषदने' उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, 'एव' इति पूरणे, | तथैव च 'त्वग्वर्त्तने' शयने 'उल्लङ्घने' तथाविधनिमित्तत ऊर्ध्व भूमिकाद्युत्क्रमणे गर्त्ताद्यतिक्रमणे वा 'प्रलङ्घने' सामाअन्येन गमने, उभयत्र सूत्रत्वात्सुपो लुक्, 'इन्द्रियाणां च' स्पर्शनादीनां 'जुंजणे' त्ति योजनं - शब्दादिविषयेषु व्यापारणं तस्मिन् सर्वत्र च वर्त्तमान इति शेषः, ततः स्थानादिषु वर्त्तमानः संरम्भः - अभिघातो यष्टिमुष्टयादिसंस्थानमेव | सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः परितापकरो मुष्ट्याद्यभिघातः, ततः संरम्भश्च समारम्भश्च संरम्भसमारम्भं तस्मिन्, 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं निवर्त्तयेत् शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ | सम्प्रति समितिगुत्योः परस्परविशेषं स्वयं सूत्रकृदाह - याओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणेऽवत्ता, असुभत्थेसु य सव्वसो ॥ २६ ॥ 'एता:' अनन्तरोक्ताः पञ्च समितयश्चरणं - चारित्रं सच्चेष्टेतियावत् तस्य प्रवर्त्तने पूर्वत्र चशब्दस्य भिन्नक्रमत्वादवधारणार्थत्वाच्च प्रवर्त्तन एव, किमुक्तं भवति ? – सच्चेष्टासु प्रवृत्तावेव समितयः, तथा 'गुत्ती 'ति गुप्तयो निवर्त्तनेऽ|प्युक्ताः 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः, सूत्रे तु सुव्यत्ययेन पञ्चम्यर्थे सप्तमी, 'सबसोत्ति सर्वेभ्योऽपि - शब्दाचरणप्रवर्त्तने च, उपलक्षणं चैतत् शुभार्थेभ्योऽपि निवृत्तेः, वाक्काययोर्निर्व्यापारताया अपि गुप्तिरूपत्वात्, |उक्तं हि गन्धहस्तिना - “सम्यगागमानुसारेणारक्तद्विष्टपरिणतिसहचरितमनोव्यापारः काय व्यापारो वाग्व्यापारश्च For Private & Personal Use Only प्रवचनमा त्राख्यम्. २४ ॥५१९॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy