________________
अनयोः समाहारस्तस्मिन् , आरम्भः-अत्यन्तक्लेशतः परप्राणापहारक्षममशुभध्यानमेव तस्मिन् 'च' समुच्चये 'तथैव' ४ तेनैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण 'चः' पूरणे 'मनः' चित्तं 'प्रवर्त्तमान' व्याप्रियमाणं 'तुः विशेषणे 'निवर्तयेत्' नियमयेत् 'जयंति यतमानः 'यतिः' तपखी। विशेषश्चायमिह-शुभसङ्कल्पेषु मनः प्रवर्तयेत् , प्रवीचाराप्रवीचाररूपत्वाद्गुप्तेरिति सूत्रद्वयार्थः ॥ वागगुप्तिमाह
सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा य, वयगुत्ती चउव्विहा ॥ २२॥
संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २३ ॥ सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वाग्गुप्तिरुच्चारयितव्या, तथा सत्या वाक जीवं जीवमिति| प्ररूपयतः असत्या जीवमजीवमिति सत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृपा त विधेहि खाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथा वाचिकः संरम्भः-परव्यापादनक्षमक्षद्रविद्यादिपरावर्तनासकल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः-परपरितापकरमन्त्रादिपरावर्त्तनम् 'आरम्भः' तथा-|| विधसंक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममन्त्रादिजपनमिति सूत्रद्वयार्थः ॥ इदानीं कायगुप्तिमभिधातुमाह
ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य जुजणे ॥२४॥ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥२५॥
+
उत्तराध्य.८७ in Eduent an in
For Private Personal Use Only
9
w.jainelibrary.org