________________
Jain Education
म्भवात्, कर्म तपसा 'निर्जी' आधिक्येन क्षयं नीयते, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ तपसा कर्म निर्जीर्यत इत्युक्तं, तत्र किं तत्तपः १ इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्खरूपाभिधानस्य तद्भेदानाह—
सो वो दुबो वृत्तो, बाहिरऽभंतरो तहा। बाहिरो छव्विहो वृत्तो, एवमभितरो तवो ॥ ७ ॥ 'तद्' अनन्तरप्रक्रान्तं तपो द्विविधमुक्तं 'बाहिरऽ अंतरी' ति 'वा' वाह्यद्रव्यापेक्षत्वात् प्रायो मुक्तत्यवाप्तिवहिरङ्गत्वाच्च 'अभ्यतरं' तद्विपरीतं यदिया लोकप्रतीतत्वात्कुतीर्थिकैश्च खाभिप्रायेणासेव्यमानत्वाद्वाह्यं तदितरत्त्वा भ्यन्तरम्, उक्तञ्च - " लोके परसमयेषु च यत्प्रथितं तत्तपो भवति बाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राम् ॥ १ ॥" अन्ये त्वाहु:-" प्रायेणान्तःकरणव्यापाररूपमेवाभ्यन्तरं, वायं त्वन्यथे” ति, तथेति समुच्चये, बाह्य | 'पडिधं' षड्भेदमुक्तमेवमिति पडिधमभ्यन्तरं तप उक्तमिति सम्बन्धः, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सूत्रार्थः ॥ तत्र यथा बाह्यं पविधं तथाऽऽह
अणसणमूणोअरिया भिक्खायरिया य रसपरिच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८ ॥
अक्षरार्थः स्पष्ट एव ॥ भावार्थं तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाह -
इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकखा उ बिइज्जिया ॥ ९ ॥ जो सो इत्तरियतवो, सो समासेण छव्विहो । सेढितवो पयरतवो, घणो अ तह होइ वग्गो य ॥ १० ॥ तत्तो
For Private & Personal Use Only
w.jainelibrary.org