________________
Jain Education
ए णं भंते! जीवे किं जणइ ?, अकम्मयं जणति, अकम्मयाए जीवा सिज्झन्ति" इति पाठः, पूर्वत्र च क्वचित्कि - | ञ्चित्पाठभेदेनाल्पा एव प्रश्ना आश्रिताः, अस्माभिस्तु भूयसीषु प्रतिषु यथाव्याख्यातपाठदर्शनादित्थमुन्नीतमिति ७२ । सम्प्रत्युपसंहर्तुमाह
एसो खलु सम्मत्त रकमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पनविए परूविए दंसिए निदंसिए उवदंसिए तिबेमि ॥ ॥ संमत्तपरक्कमं ॥ २९ ॥
'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्य 'अर्थः' अभिधेयः श्रमणेन भगवता महावीरेण ' आघविए' त्ति आर्पत्वाद् 'आख्यातः ' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन 'प्रज्ञापितः' हेतुफलादिप्रकाशनात्मकप्रकर्षज्ञापनेन 'प्ररूपितः ' खरूपकथनेन दर्शितः' नानाविधभेददर्शनेन 'निदर्शितः' दृष्टान्तोपन्यासेन 'उपदर्शितः' उपसंहारद्वारेण इदमपि चूर्णिमाश्रितमेव । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, गतोऽनुगमः, सम्प्रति नयाः, तेऽपि तथैव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां सम्यक्त्वपराक्रमं नाम एको| नत्रिंशमध्ययनं समाप्तम्
इत्युत्तराध्ययनटीकायां शिष्य० श्रीशान्तिसूरिकृतायां सम्यक्त्वपराक्रमाभिधमेकोनत्रिंशमध्ययनम् ॥
-
For Private & Personal Use Only
w.jainelibrary.org