________________
सम्यक्त्व
पराक्रमा.
उत्तराध्य.
तद्यापारंच प्रतिसमयं निरुन्धनसंख्येयसमयैस्तत्सर्वनिरोधं करोति, यत उक्तम्-"पजत्तमित्तसण्णिस्स जत्तियाई
#जहणजोगिस्स । होन्ति मणोदवाइं तवावारो य जम्मेत्तो ॥१॥ तयसंखगुणविहीणे समए समए निरंभमाणो बृहद्धृत्तिः
सोमणसो सवणिरोहं कुणइ असंखेजसमएहिं ॥२॥” तदनन्तरं च वाचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो दाजीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान समये
समये निरुन्धनसंख्येयसमयैः सर्ववाग्योगं निरुणद्धि,यत उक्तम्-"पजत्तमित्तबिंदिय जहन्नवइजोगपजवा जे उ। तदसंखगुणविहीणं समए समए निरंभंतो ॥३॥ सव्ववइजोगरोह संखाईएहि कुणइ समएहिं ।" 'आणापाणुणिरोह'ति आनापानौ-उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , तं च कुर्वन् प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्खयेयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चन्नसङ्ख्येयसमयेरेव सर्व निरुणद्धि, यत उक्तं च-"तत्तो य सुहुमपणयस्स पढमसमओववण्णस्स ॥४॥ जो किर जहणजोओ तयसंखेजगुणहीणमेक्केके । समए निरंभमाणो देहतिभागं च मुंचंतो ॥५॥ रंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेति ॥६॥” इत्थं योगत्रयनिरोधं विधाय ईषदिति-खल्पः प्रयत्नापेक्षया पञ्चानां इखाक्षराणाम् अइउऋल. इत्येवंरूपाणामुच्चरणमुच्चारो-भणनं तस्याद्धा-कालो यावता त उच्चार्यन्त ईषत्पञ्चाक्षरोचारणाद्धा तस्यां च णमिति प्राग्वत् अनगारः समुच्छिन्ना-उपरता क्रिया-मनोव्यापारादिरूपा यस्मिं
HAMARENA
॥५९६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org