________________
रितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात् 'वेदितं तत्फलसुखानुभवनेन 'निर्जीण क्षयमुपागतं 'सेयाले यत्ति सूत्रत्वाद् 'एष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तजीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् , एत- चैवंविधविशेषणान्वितं सातकर्मवासी बनाति, यत उक्तम्-"अप्पं वायर मउयं बहुंच रुक्खं च सुक्किलं चेव ।। मंदं महव्वयंति य सायाबहुलं च तं कम्मं ॥१॥" ७१ । अयं च देशोनपूर्वकोटीमन्तर्मुहादिप्रमाणं वा कालं विहृत्य | यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-'अथेति केवलावा
त्यनन्तरम् 'आयुष्क' जीवितमन्तर्मुहर्तादिपरिमाणं पालयित्वा, अन्तर्मुहूर्तपरिमाणाऽद्धा-कालोऽन्तर्मुहर्ताद्धा साऽविशेषम्-उद्धरितं यस्मिंस्तदन्तर्मुहर्ताद्धावशेषं तथाविधमायुरस्येत्यन्तर्मुहूर्ताद्धावशेषायुष्कः सन् , पाठान्तरतश्चा
न्तर्मुहूर्तावशेषायुष्कः, पठन्ति च-अंतोमुहुत्तअद्धावसेसाए'त्ति प्राकृतत्वादन्तर्मुहूर्तावशेषाद्धायां योगनिरोहं करेमाणे'त्ति योगनिरोधं करिष्यमाणः सूक्ष्मा क्रिया-व्यापारो यस्मिंस्तत्सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपाति अधःपतनाभावात् , शुक्लं ध्यानं 'समुदायेपु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त' इति शुक्लध्यानतृतीयभेदं ध्यायन् 'तत्प्र-४ थमतया' तदाद्यतया मनमो योगो मनोयोगः-मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रस्य सज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तजनितश्च यावद्यापारस्तदसङ्घयगुणविहीनानि मनोद्रव्याणि | १ अल्पं बादरं मृदु बहु च मनं च शुक्लं चैव । मन्दं महाव्ययमिति च सातबहुलं च तत्कर्म ॥ १ ॥
RECARDHAMAKAL
Jain Education in
For Private
Personal Use Only
How.jainelibrary.org