________________
RSSCRochac
वीतरागस्तद्भावं जनयति, 'वीतरागभावपडिवन्ने य' त्ति, अपिचेत्यस्य पुनरर्थत्वात्प्रतिपन्नवीतरागभावः पुनर्ज समे-रागद्वेषाभावतस्तुल्ये सुखदुःखे यस्य स तथाविधो भवति, रागद्वेषाभ्यां हि तत्र वैषम्यसम्भवः, तदभावे समतैवावशिष्यते ३६ । निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदुच्यते, तत्र योगा-मनोवाकायव्यापारास्तत्प्रत्याख्यानेन-तनिरोधलक्षणेन 'अयोगत्वं' वक्ष्यमाणन्यायेनायोगिभावं जनयति, अयोगी जीवः ('नवं
प्रत्यग्रं 'कर्म' सातवेदनीयाद्यपि न वनाति तत्कारणयोगाभावात् ,) पूर्वबद्धम्' इति भवोपग्राहिकर्मचतुष्टयमन्यस्य ल तदाऽसंभवात् 'निर्जरयति' क्षपयति ३७ । योगप्रत्याख्यानतः शरीरमपि प्रत्याख्यातमेव भवति, तथापि तदाधा
रत्वान्मनोवाग्योगयोस्तत्प्राधान्यख्यापनार्थं तत्प्रत्याख्यानमेवाह, तत्र शरीरम्-औदारिकादि तत्प्रत्याख्यानेन |सिद्धानामतिशयगुणा न कृष्णान नीला इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वाद्वहुव्रीहिस्तद्भावस्तत्त्वम् ,उक्तं हिहै "से ण किण्हे ण नीले ण हालिद्दे" इत्यादि 'निर्वर्त्तयति' जनयति, सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रभवत्वात् ।
लोकाग्रं-मुक्तिपदम् ‘उपगतः'प्राप्तः 'परमसुखी' अतिशयसुखवान् भवति ३८ । सम्भोगादिप्रत्याख्यानानि च प्रायः सहायप्रत्याख्यान एव सुकराणि भवन्तीति तदुच्यते-सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन-तथाविधयोग्यताभाविनाऽभिग्रहविशेषरूपेण 'एकभावम्' एकत्वं जनयति 'एकीभावभूतश्च एकत्वप्रासश्च जीवः एकालम्बनत्वं 'भाव-14 |यन्' अभ्यस्यन् 'अप्पझंझ'त्ति अल्पशब्दोऽभाववचनः, ततश्चाल्पझञ्झः-अविद्यमानवाकलहस्तथाऽल्पकषायः-अविद्य-14
in Educatan i
For Private & Personel Use Only
ww.jainelibrary.org