________________
उत्तराध्य.
बृहद्वृत्तिः mષ૮૮ાા.
स्तदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्त उपधेर्निरुपधिको जीवः 'निष्कासः' वस्त्राधभिलापरहितः सन् ,४ सम्यक्त्व. एतच पदं क्वचिदेव दृश्यते, उपधिमन्तरेण चस्य भिन्नक्रमत्वान्न संक्लिश्यति-न च मानसं शारीरं वा क्लेशमामोति, उक्तं
पराक्रमा. हि-"तस्स णं भिक्खुस्स णो एवं भवति-परिजुन्ने मे वत्थे सूई जाइस्सामि संधिस्सामि उकंसिस्सामि तुण्णिस्सामि । वोकसिस्सामि" इत्यादि ३४ । उपधिप्रत्याख्याता चाहारमपि प्रत्याचष्टे, यतो जिनकल्पिकादिरेषणीयालामे बहून्यपि |दिनान्युपोषित एवास्तेऽत आहारप्रत्याख्यानमाह-'आहारप्रत्याख्यानेन' अनेषणीयभक्तपाननिराकरणरूपेण जीवितेप्राणधारणरूपे आशंसा-अभिलाषो जीविताशंसा तस्याः प्रयोगो-व्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनं हि मनुजानां जीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छेदो भवति, पठन्ति च-'जीवियासविप्पओगं वोच्छिदिय'त्ति, तत्र जीविताशया विप्रयोगो-विविधव्यापारस्तं व्यवच्छिनत्ति, जीविताशया ह्याहार एव 8 मुख्यो व्यापारस्ततस्तत्प्रत्याख्याने शेषव्यापारव्यवच्छेदः सुकर एव भवतीति, ततश्च जीविताशंसाप्रयोगं जीविताशाविप्रयोगं वा विच्छिद्य जीवः ‘आहारम्' अशनादिकम् 'अन्तरेण विना न संक्लिश्यति, कोऽर्थः ?-विकृष्टतपोऽनुष्ठान|वानपि न बाधामनुभवति ३५ । एतच्च प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यते-18॥५८८॥ कपायप्रत्याख्यानेन-क्रोधादिविनिवारणेन वीतो-विगतो रागो द्वेषविगमाविनाभावित्वात्तद्विगमस्य द्वेपश्चास्येति १ तस्य भिक्षोनैवं भवति-परिजीण मे वस्त्रं सूचिं याचयिष्यामि संधास्ये उत्कर्षयिष्यामि तूणयिष्याभि (व्येष्यामि ) व्युत्कर्षयिष्यामि
RANAS
in Education
I
dea
For Private & Personel Use Only
Tiw.jainelibrary.org