________________
ग्रहायोपात्तानि, एवंविधश्च यं गुणमवाप्नोति तमेवोक्तानुवादेनाह-'परस्स लाभं आणासाएमाणे'त्ति, 'अनाशयमानः' आशाविषयमकुर्वाणोऽनास्वादयन् वाऽभुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'दोचंति द्वितीयां सुखशय्याम "उपसंपद्य' प्राप्य विहरति, एवंविधरूपत्वात्तस्याः, तथा च स्थानाङ्गम्-"अहावरा दोचा सुहसेजा-सेणं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए समाणे सएणं लाभेणं सन्तूसति परस्स लाभं नो आसाएति णो तक्केइ णो पीहेइ णो पत्थेइ नो अभिलसेति, सेणं परस्स लाभं अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे णो मणं उच्चावयं नियच्छति णो विणिघायमावजईत्ति इह च 'अणासाएमाणे' इत्युत्तरत्र वचनात् स्थानाङ्गे च दर्शनात् , पूर्वत्रापि णो आसाएइ' इति [बहुवचनमनुमीयते, तच्च गम्यतया न निर्दिष्टं लेखकदोषेण वान दृश्यत इति न विद्मः ३३।४ सम्भोगप्रत्याख्यानवतश्वोपधिप्रत्याख्यानमपि संभवतीति तदाह, तत्रोपधिः-उपकरणं तस्य रजोहरणमुखवस्त्रिकाव्य|तिरिक्तस्य प्रत्याख्यानं न मयाऽसौ ग्रहीतव्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानं तेन परिमन्थः-स्वाध्यायादिक्षति
१ अथापरा द्वितीया सुखशय्या स मुण्डो भूत्वाऽगारादनगारितां प्रबजितः सन् स्वकेन लाभेन संतुष्यति परस्य लाभं नास्वादयति न ४|तर्कयति न स्पृहयति न प्रार्थयति नाभिलष्यति, स परस्य लाभमनासादयन् अतर्कयन् अस्पृहयन् अप्रार्थयमानोऽनभिलप्यन् नो मनः | त उच्चावचं नियच्छति नो विनिघातमापद्यते
Jain Education
For Private & Personel Use Only
AMw.jainelibrary.org