SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५८७॥ रयति' क्षपकश्रेणिप्रतिपत्त्या क्षपयति ३१ । विविक्तशयनासनतायां च विनिवर्त्तना भवतीति तामाह-'विनिवर्त सम्यक्त्वनया' विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया 'पापकर्मणां' सायद्यानुष्ठानानाम् 'अकरणतया' न मया पापानि पराक्रमा. कर्तव्यानीत्येवंरूपया 'अभ्युत्तिष्टते' धर्म प्रत्युत्सहते, पूर्ववद्धानां पापकर्मणामिति प्रक्रमः, चशब्दो निर्जरणानन्तरं द्रष्टव्यः ततः पूर्वबद्धानां निर्जरणया चशब्दादभिनवानुपादानेन च तदिति कर्म 'निवर्त्तयति' विनाशयति, | यदिवा पापकर्मणां-ज्ञानावरणादीनाम् 'अकरणयाइ'त्ति आपत्वाद् 'अकरणेन' अपूर्वानुपार्जनेनाभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां च कर्मणां निर्जरणया, अन्यत्प्राग्वत् ४० । विषयनिवृत्तश्च कश्चित्सम्भोगप्रत्याख्यानवान् संभवत्यतस्तदाह-समिति-संकरेण-खपरलाभमीलनात्मकेन भोगः सम्भोगः,एकमण्डलीकभोक्तृत्वमिति योऽर्थः तस्य प्रत्याख्यानं-गीतार्थावस्थायां जिनकल्पाद्यभ्युद्यतविहारप्रतिपच्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि द ग्लानादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बनस्य चायतो-मोक्षः संयमो वा स एवार्थः-प्रयोजनं विद्यते येषामित्यायतार्थिकाः 'योगाः' व्यापारा भवन्ति प्रपञ्चतश्च प्रवर्तन्ते, तथा 'खकी-18 भायेन' आत्मीयेन लाभेन 'सन्तुष्यति' निरभिलापो भवति, परस्य लाभ नो तर्कयति नो स्पृहयति नो प्राथेयति नो| ॥५८७॥ अभिलषति, तत्र तर्कणं-मनसा यदि मह्यमसौ ददातीति विकल्पनं, स्पृहणं-तच्छद्धालुतयाऽऽत्मन आविष्करणं, * प्रार्थनं-वाचा मह्यं देहीति याचनम् , अभिलषणं-तल्लालसतया वाञ्छनम् , एकार्थिकानि वैतानि नानादेशजविनेयानु Jain Education Intl For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy