SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् खसुखरसिक एवासीत् अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तदुःखदुःखितया खयमपि तत्काल एव कम्पत इति, तथा 'अनुद्भटः'। अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्षपयति २९ । सुखशय्यास्थितस्य चाप्रतिबद्धता भवतीति तामभिधातुमाह-'अप्रतिवद्धतया' मनसि । निरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एकाग्रचित्तः' धर्मकतानमना एकाग्रताविबन्धकहेत्वभावात् , ततश्च दिवा वा रात्रौ वाऽसजन्, कोऽर्थः ?-सदा वहिःसङ्गं त्यजन्नप्रतिबद्धश्चापि विहरति. कोऽभिप्रायः ?-विशेषतः प्रतिवन्धविकलो मासकल्पादिनोद्यतविहारेण पर्यटति ३० । अप्रतिबद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि-ख्याद्यसंसक्तानि शयनासनान्युपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां जनयति 'चरित्तगु ते'त्ति प्राग्वद् , गुप्तचरित्रश्च जीवो विविक्तो-विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र है हानिःस्पृह एव भवति, तथा दृढं-निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन-निश्चयेन रतः-अभिरति मानेकान्तरतः संयम इति गम्यते, तथा मोक्षे-मुक्तौ भावेन-अन्तःकरणेन प्रतिपन्न-आश्रितः मोक्षभावप्रतिसापन्नः मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधकर्मग्रन्थिरिव ग्रन्थिदुर्भदतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्ज Jain Education inte For Private & Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy