SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व पराक्रमा. २९ उत्तराध्या मानक्रोधादिः 'अप्पतुमंतुमि त्ति अल्पम्-अविद्यमानं त्वं त्वमिति खल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेव ४ सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा,संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव 'समाहीए यावित्ति बृहद्वृत्तिः | 'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति ३९ । एवंविधश्चान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह॥५८९॥ 'भक्तप्रत्याख्यानेन' आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधढाध्यवसायतया संसाराल्पत्वापादनादिति भावः४० । साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह-तत्र सद्भावन-सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत् तेन, न विद्यते निवृत्तिःमुक्तिमप्राप्य निवर्तनं यस्मिंस्तद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतश्च 'निवृत्तिं द्विसमयस्थितिकस्यापि वेद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अणियहि पडिवण्णे य'त्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्ननिवृत्तिश्चानगारः 'चत्वारि' चतुःसङ्खयानि केवलिनः 'कम्मंस'त्ति कार्मग्रन्धिकपरिभाषयाउंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि-भवोपग्राहीणि क्षपयति, शेषं स्पष्टम् ४१ । एतच्च प्रत्याख्यानं प्रायः प्रतिरूपतायामेव भवतीति तामाह-'पडिरूवयाए'त्ति, प्रतिः-सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं-वेषो यस्य स तथा तद्भावस्तत्ता तया-अधिकोपकरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भाचो लाघविता तां द्रव्यतः दखल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति,लघुभूतश्च जीवः 'अप्रमत्तः' प्रमादहेतूनां परिहारत इतरेषां चाङ्गी ROCHOCHEMOREGAONGRECCIEOCOCOG ॥५८९॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy