________________
ROSAROSECSROSAGARCANCE
है गोमयादि 'अपिः' पूरणे तथाविधं परिष्ठापनाह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । स्थण्डिलं च दशवि
शेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदयोभङ्गरचनामाह-अविद्यमान आपात:स्वपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गदव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्गः १, 'अनापातं चैव भवति
संलोक' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, 'आपातमसंलोक मिति यत्रापातोऽस्ति न च संलोक इति तृतीयः ३, 'आपातं चैव संलोकं' यत्रोभयमपि संभवतीति चतुर्थः ४, इह चापातसंलोकमिति च अर्शआदेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काका दशविशेषणपदज्ञानार्थ, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह-'परस्य' स्वपक्षादेः, गमकत्वाचोभयत्र सापेक्षत्वेऽपि समासः, उपघातः-संयमात्मप्रवचनवाधात्मको विद्यते यत्र तदुपघातिकं न तथाऽनुपघातिक तस्मिन् , तथा 'समे' निम्नोनतत्ववर्जिते 'अशुषिरे वाऽपि तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना खल्पकालनिर्वर्तिते, चिरकालकृते दाहि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरमु
लमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेईरवर्तिनि 'बिलवर्जिते' मूपकादिरन्ध्ररहिते त्रसप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितं त्रसप्राणवीजरहितं तस्मिन् ,
Jain Education Intl
For Private & Personel Use Only
Naw.jainelibrary.org