________________
प्रवचनमा
उत्तराध्य. बृहद्धृत्तिः ॥५१७॥
त्राख्यम्.
'ओहोवहोवग्गहियंति उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगुणग्रन्थिवदुभयत्र संबध्यते, तत ओघोपधिमौपग्रहिकोपधिं च 'भाण्डकम्' उपकरणं रजोहरणदण्डकादि 'द्विविधम्' उक्तभेदतो द्विभेदं मुनिः 'गृह्णन्' आददानः 'निक्षिपंश्च क्वचित्स्थापयन् 'प्रयुञ्जीत' व्यापारयेत् 'इमं वक्ष्यमाणं "विधि' न्यायं । तमेवाह-'चक्षुषा' दृष्टया 'पडिलेहित्त'त्ति 'प्रत्युपेक्ष्य' अवलोक्य 'प्रमार्जयेत्' रजोहरणादिना विशोधयेत् यतमानो यतिस्ततः 'आदिए'त्ति | |'आददीत' गृह्णीयात् 'निक्षिपेद्वा' स्थापयेत् 'दुहतोऽवित्तिद्वावपि प्रक्रमादौघिकोपग्राहिकोपधी, यदिवा 'द्विधाऽपि' द्रव्यतो भावतश्च 'समितः' प्रक्रमादादाननिक्षेपणासमितिमान् सन् 'सदा सर्वकालमिति सूत्रद्वयार्थः ॥ सम्प्रति परिष्ठापनासमितिमाह
उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥१५॥ अणावायमसंलोए अणवाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥१६॥ अणवायमसंलोए, पर|स्सऽणुवघाइए । समे अज्झुसिरे वावि, अचिरकालकयंमि य ॥ १७॥ विच्छिन्ने दूरमोगाढे, णासन्ने बिल
वजिए। तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥१८॥ ___ 'उच्चारं' पुरी 'प्रश्रवणं' मूत्रं 'खेल' मुखविनिर्गतं श्लेष्माणं 'सिंघाणं ति नासिकानिष्क्रान्तं तमेव 'जल्लियंति आपत्वात् जल्लो-मलस्तम् 'आहारम्' अशनादिकम् 'उपधिं' वर्षाकल्पादि 'देह' शरीरम् 'अन्यद्वा' कारणतो गृहीतं
॥५१७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org