________________
Jain Education Int
3
त्पादनमिति समाहारः, तत्किमित्याह - विशोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति ? - आधाकर्मादिदोपपरिहारत उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमे 'ति प्रथमायां गवेषणैषणायां, 'बीय'त्ति द्वितीयायां ग्रहणैषणायां शोधयेच्च्छङ्कितादिदोषत्यागतः 'एषणां' ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिकां 'परिभोग' इति परिभोगैषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम् उक्तं हि - पिंड सेज्जं च वत्थं च, चउत्थं पायमेव य"त्ति, विशोधयेत्, इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति, कोऽर्थः ? – उद्गमादिदोपत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोषोपलक्षणत्वात् 'उग्गम'त्ति उद्गमदोषान् 'उप्पायनं'ति उत्पादनादोपान् 'एस' त्ति एषणादोपान् विशोधयेत्, 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम्, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् उभयत्र शोधनमपनयनं, 'जयं'ति यतमानः 'यतिः' तपखी, | व्याख्याद्वयेऽपि च पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ इदानीमादाननिक्षेपणसमितिमाह
ओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिण्हंतो निक्खिवंतो य, परंजिज्ज इमं विहिं ॥ १३ ॥ चक्खुसा पडिलेहित्ता, पमज्जिज्ज जयं जई । आदिए निक्खिविज्जा वा, दुहओऽवि समिए सया ॥ १४ ॥ १ पिण्डं शय्यां च वस्त्रं च पात्रमेव च चतुर्थम् ।
For Private & Personal Use Only
w.jainelibrary.org