________________
ACRECORROCARRORSCRECSCIEOS
न्तरं क्षमितव्यमिदं मयेत्यादिरूपा तया 'पल्हाएणंतभावं जणयइ'त्ति प्रहादेन-आत्मनो मनःप्रसत्त्यात्मकेनान्तर्भा(भा)वं-विनाशं प्रक्रमादनुशयस्य तजनितचित्तसंक्लेशस्य च 'जनयति' उत्पादयति प्रह्लादेनान्तर्भावमुपगतश्च, पठन्ति च-'पल्हायणभावं जणयति, पल्हायणभावमुवगए यत्ति, इह च प्रहादनभावः-चित्तप्रसत्तिरूपोऽभिप्रायः, सर्वे च ते प्राणाश्चेह द्वित्रिचतुरिन्द्रिया भूताश्च-तरवो जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-शेषजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि-"प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥१॥" तेपु 'मित्रीभावं' परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः 'भावविशुद्धिं' रागद्वेपविगमरूपां कृत्वा 'निर्भय' इहलोकादिभयविकलो भवति, अशेषभयहत्वभावादिति भावः १७ । एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह-खाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेष च कर्म क्षपयति, यत आह-"कम्ममसंखेजभवं खवेइ अणुसमयमेव आउत्तो। अन्नयरम्मिवि जोए सज्झायमि य । विसेसेणं ॥१॥"१८ । अत्र च प्रथमं वाचनैव विधेयेति तामाह-बक्ति शिष्यस्तं प्रति गुराः प्रयोजकभावो वाचना| पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भिन्नक्रमत्वादनाशातनायां च वर्त्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत् न तु तत्करण इति, पठन्ति च-'अणुसजणाए वट्टई' तत्रानुषङ्ग(अ)-| । १ कर्मासंख्येयभविकं क्षपयति अनुसमयमेवाऽऽयुक्तः । अन्यतरस्मिन् योगेऽपि स्वाध्याये च विशेषेण ॥१॥
Jain Education
For Private Personel Use Only
Jainelibrary.org