________________
उत्तराध्य. बृहद्वृत्तिः ॥५८३॥
KORRCCCCESSAGAROGRACKS
भावः १५। कथञ्चिदकालपाठे च प्रायश्चित्तं प्रतिपत्तव्यमिति प्रक्रमायातं तत्करणमाह-तत्र पापं छिनत्ति प्राय- सम्यक्त्वश्चित्तं वा विशोधयतीति नैरुक्तविधिना प्रायश्चित्तम् , उक्तं हि-"पावं छिंदति जम्हा पायच्छित्तंति भण्णए तेणं ।।
पराक्रमा. पाएण वाऽवि चित्तं विसोहए तेण पच्छित्तं ॥१॥"ति, तचालोचनादि तय करणं-विधानं प्रायश्चित्तकरणं तेन पापकर्मणां विशुद्धिः-अभावः पापकर्मविशुद्धिस्तां जनयति निरतिचारश्चापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात् , सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्गः-इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं 'विशोधयति' निर्मलीकुरुते, ततश्चाचर्यत इत्याचारः-चारित्रं तच तत्फलं च-मुक्तिलक्षणमाराधयति, न च ज्ञानदर्शन-४ योर्युगपद्भावभावित्वाद्धेतुफलभावाभाव इति वाच्यं, यत आगम:-"कारणकजविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नपि तहा हेऊ णाणस्स संमत्तं ॥१॥" यद्वा मार्ग-चारित्रप्राप्तिनिबन्धनतया दर्शनज्ञानाख्यं तत्फलं च चारित्रं तत आचारं च-ज्ञानाचारादि तत्फलं-मोक्षमाराधयति. अथवा 'मार्ग च' मुक्तिमार्ग क्षायोप-| शमिकदर्शनादि तत्फलं च-तमेव प्रकर्षावस्थं क्षायिकदर्शनादि, शेषं प्राग्यत् , विशोधनाऽऽराधनयोश्च सर्वत्र निर-13 तिचारतयैव हेतुरिति भावनीयम् १६। प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा-दुष्कृतान- ॥५८३॥
१ पापं छिनत्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ १॥ २ कारणकार्यविभागो दीपप्रकाशयोर्युगपज्जन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुानस्य सम्यक्त्वम् ॥ २ ॥
Jan Education in
For Private Personel Use Only
www.jainelibrary.org