SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ क्वादिलाभं शातयति-विनाशयतीत्यत्याशातना तस्यां शीलं-तत्करणखभावात्मकमस्येत्यत्याशातनाशीलो न तथाऽ नत्याशातनाशीलः, कोऽर्थः ?-गुरुपरिवादादिपरिहारकृत, एवंविधश्च नैरयिकतिर्यग्योनिकमनुष्यदेवदुर्गतीरिति-नैरदयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनिः खार्थिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छ-/ किल्बिषिकत्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात् , तथा वर्णः-श्लाघा तेन सज्वलनं-गुणोद्भासनं वर्णसज्वलनं भक्तिः-अअलिप्रग्रहादिका बहुमानम्-आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये |च वर्णसज्वलनभक्तिबहुमानता तया-प्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेवसोग्गइओ'त्ति मानुष्यदेवसुगतीः विशिष्टकुलैश्चर्येन्द्रत्वाद्युपलक्षिता निवनाति तत्प्रायोग्यकर्मबन्धनेनेति भावः, 'सिद्धिसोग्गई'ति सिद्धिसुगति च विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन, 'प्रशस्तानि च प्रशंसास्पदानि 'विनयमूलानि' विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि परत्र च मुक्तिं 'साधयति' निष्पादयति, तत्किमेवं खार्थसाधक एवासावित्साहअन्यांश्च बहून् जीवान् ‘विनेता' विनयं ग्राहिता, खयं सुस्थितस्योपादेयवचनात्, उक्तं हि-"ठिओ उठावए परं"ति, तथा च विनयमूलत्वादशेषश्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भावः४। गुरुशुश्रूषां कुर्वतोऽप्यतीचारसम्भवे आलोचनात एव विवक्षितफलप्राप्तिरिति तामाह-आङिति-सकलखदोषाभिव्यात्या लोचनाआत्मदोषाणां गुरुपुरतः प्रकाशनाऽऽलोचना तया माया-शाठ्यं निदानं-ममातस्तपःप्रभृत्यादेरिदं स्यादिति प्रार्थनात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि शल्यानीव शल्यानि ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि, Jain Education indi For Private Personal use only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy