________________
उत्तराध्य.
बृहद्वृत्तिः
॥५७८ ॥
Jain Education Inte
| सिद्धिमार्गः - सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति २॥ सत्यपि निवेदे धर्मश्रद्धैव सकलकल्याणनिबन्धनमिति तामाह-'धर्मश्रद्धया' उक्तरूपया सातं - सातवेदनीयं तजनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समा| सस्तेषु वैषयिकसुखेष्वितियावत् 'रज्यमानः ' पूर्व रागं कुर्वन् 'विरज्यते' विरक्तिं गच्छति, 'अगारधर्म च' गृहाचारं गार्ह |स्थ्यमितियावत्, चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयेक सुखानुरागनिबन्धनत्वात्, ततश्च 'अणगार'ति प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किंरूपाणामित्याह - 'छेदनभेदनसंयोगादीना' मिति, छेदनं-खड्गादिना द्विधाकरणं भेदनं- कुन्तादिना विदारणम्, आदिशब्दस्येहापि सम्बन्धात्ता - डनादयश्च गृह्यन्ते, ततश्छेदन भेदनादीनां शारीरदुःखानां संयोगः - प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण - पुनरसम्भवलक्षणेनोच्छेदः - अभावो व्युच्छेदस्तं करोति, तन्निबन्धनकर्मोच्छेदेनेति भावः, अत एव 'अव्याबाधम्' उपरतसकलपीडं मौक्तमितियावत्, 'चः पुनरर्थे भिन्नक्रमस्ततः सुखं पुनः 'निर्वर्त्तयति' जनयति, पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु स्वातच्येणेत्यपौनरुक्तयमिति भावनीयम् ३ ॥ धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूषणमाहगुरूणां शुश्रूषणं- पर्युपासनं तेन 'विनयप्रतिपत्तिम्' उचित कर्त्तव्यकरणाङ्गीकाररूपां जनयति 'विणयपडिवण्णे य'त्ति प्राग्वत् प्रतिपन्नः - अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अणच्चासायणासीले'त्ति अतीवाऽऽयं - सम्य
For Private & Personal Use Only
सम्यक्त्व
पराक्रमा.
२९
॥५७८ ॥
jainelibrary.org