SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ SSSSSSRAE% ERROCA5% धर्मकायावस्थामास्थितेनेत्यर्थः, भगवता महावीरेण काश्यपेन 'प्रवेदितं' खतः प्रवेदितमेव भगवता ममेदमाख्यातमित्युक्तं भवति, अनेन वक्तृद्वारेण प्रस्तुताध्ययनस्य माहात्म्यमाह । ननु सुधर्मस्वामिनोऽपि श्रुतकेवलित्वात्तद्वारेणाप्यस्य प्रामाण्यं सिध्यत्येव तत्किमेवमुपन्यासः१, उच्यते, लब्धप्रतिष्ठरपि गुरूपदिष्टं गुरुमाहात्म्यं च ख्यापयद्भिः सूत्रमर्थश्चाख्येय इति ख्यापनार्थमेवमुपन्यासः, इत्थं वक्तद्वारेणास्य माहात्म्यमभिधाय संप्रति फलद्वारेणाह-'यदि'ति प्रस्तुताध्ययनं 'सम्यग' अवैपरीत्येन 'श्रद्धाय' शब्दाभियरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' उक्तरूपमव विशपत इत्थमेवेति निश्चित्य, यद्वा संवेगादिजनितफलानभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, 'रोचयित्वा' तदभिहिताथानुष्ठानविपयं तदध्ययनादिविषयं वाऽभिलाषमात्मन उत्पाद्य, संभवति हि क्वचिद्गुणवत्तयाऽवधारितेऽपि कदा|चिदरुचिरित्येवमभिधानं, 'फासित्त'त्ति तदुक्तानष्ठानतः स्पृष्ट्वा पालयित्वा' तद्विहितानुष्ठानस्यातीचाररक्षणेन 'तीरयित्वा' तदुक्तानुष्ठानं पारं नीत्वा 'कीर्तयित्वा' खाध्यायविधानतः संशुद्ध्य 'शोधयित्वा' तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावाप्तित उत्तरोत्तरशुद्धिप्रापणेन 'आराध्य' यथावदुत्सर्गापवादकुशलतया यावज्जीवं तदर्थासेवनेन, एतत् सर्व खमनीषिकातोऽपि स्यादत आह-आज्ञया' गुरुनियोगात्मिकया 'अनुपाल्य' सततमासेव्य, यद्वा 'स्पृष्ट्वा' योगत्रिकेण मनोवाकायलक्षणेन, तत्र मनसा-सूत्रार्थोभयचिन्तनेन वचसा-वचनादिना कायेन-भङ्गकरचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यं, 'पालयित्वा' परावर्तनादिनाभिरक्ष्य 'तीरयित्वा' अध्ययनादिना परि Jain Education a l For Private Personal Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy