________________
उत्तराध्य.
बृहद्वृत्तिः
॥५७१ ॥
तदनुष्ठानं प्रत्युद्यमदर्शनेन वा 'इह मज्झयणमित्ति इहाध्ययने वर्णितो येन तस्मादेतदध्ययनं ज्ञातव्यम् 'अप्रमादश्रुतं' अप्रमादश्रुतनामकमिति गाथार्थः ॥ गतो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
सुअं मे आउसंतेनं भगवया एवमक्खायं - इह खलु सम्मत्तपरक्कमे नामऽज्झयणे समणेणं भगवया महावीरेण कासवेणं पवेइए जं सम्मं सदहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किहइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिज्झति बुज्झति मुञ्चंति परिनिव्वायंति सव्व दुक्खाणमंतं करेंति ॥ १ ॥
'श्रुतम् ' आकर्णितं 'मे' मया आयुष्मन्निति शिष्यामन्त्रणम्, एतच सुधर्मखामी जम्बूखामिनं प्रत्याह, 'तेने 'ति यः सर्वजगत्प्रतीतः, तेनापि कीदृशेत्याह- 'भगवता' समग्रैश्वर्यादिमता प्रक्रमान्महावीरेण 'एव' मिति वक्ष्यमाणप्रकारेण 'आख्यातं' कथितं तमेव प्रकारमाह - 'इह' अस्मिन् जगति जिनप्रवचने वा 'खलु' निश्चितं सम्यक्त्वमिति गुणगुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे वोक्तरूपे सति पराक्रमः - उत्तरोत्तरगुणप्रतिपत्त्या कर्मा| रिजयसामर्थ्यलक्षणो वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति गम्यते, नन्वेवमिदमपि गौणमेव ॥ ५७१ ॥ नाम तत्किमिति निर्युक्तिकृताऽऽदानपदेनैतदुक्तम् ?, इतरे तु गौणे इति, सत्यमेतत् किन्तु नाम्नोऽनेकविधत्वसू| चनार्थ निर्युक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थ, तच्च केन प्रणीतमित्याह - 'श्रमणेन श्रामण्यमनुचरता
Jain Education International
सम्यक्त्व
पराक्रमा.
२९
For Private & Personal Use Only
www.jainelibrary.org