SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् । +%AA ACADAXAAAAAD व्याख्यातमष्टाविंशमध्ययनमेकोनत्रिंशमारभ्यते,अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ज्ञानादीनि मुक्तिमार्गत्वेनोक्तानि, तानि च संवेगादिमूलान्यकर्मताऽवसानानि च तथा भवन्तीति तानीहोच्यन्ते, यद्वाऽनन्तराध्ययने मोक्ष|मार्गगतिरुक्ता इह पुनरप्रमाद एव तत्प्रधानोपायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति, स एव वर्ण्यते, अथवा-3 नन्तराध्ययने मुक्तिमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते, इत्यनेन सम्बन्धत्रयेणायातमिदमध्ययनम् , अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि व्यावर्ण्य नामनिष्पन्ननिक्षेपोऽभिधेयः, | स च नामपूर्वक इत्येतनामनिर्देशायाह नियुक्तिकृत्है आयाणपएणेयं सम्मत्तपरकमंति अज्झयणं । गुण्णं तु अप्पमायं एगे पुण वीयरागसुयं ॥ ५०३ ॥ | आदीयत इत्यादानम्-आदिः प्रथममित्यर्थः, तच्च तत्पदं च-निराकाङ्कतयाऽर्थगमकत्वेन वाक्यमेवादानपदं तेन, उपचारतश्चेह तदभिहितमपि तथोक्तं, तत आदानपदाभिहितेन प्रक्रमान्नाम्ना 'इद'मिति प्रस्तुतं सम्यक्त्वपराक्रममितिः-उपप्रदर्शने, उच्यत इति शेषः 'अध्ययनं' प्रागुक्तनिरुक्तं, वक्ष्यति हि-"इह खलु सम्मत्तपरकमे णामऽज्झ-18 % Jon Education in For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy