________________
उत्तराध्य.
बृहद्वृत्तिः
॥५६९ ॥
वित्त पुचकम्माई, संजमेण तवेण य । सव्वदुक्ख पहीणट्टा, पक्कमंति महेसिणो ॥ ३६ ॥ तिबेमि ॥ मुखमग्गगईयं ॥ २८ ॥
'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः सम्यक् पापेभ्य उपरमणं चारित्रमित्यर्थस्तेन 'तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च नन्वेवमनन्तरं तपस एवं कर्मक्षपणहेतुत्वमुक्तम् इह तु ज्ञानादीनामपीति कथं न विरोध ?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपण हेतुत्वमिति ज्ञापनार्थमित्थमभिधानम्, अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सच्चदुक्खप्पहीणङ्घति प्राकृतत्वात्प्रकर्षेण हीनानि - हानिं गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थेच्छोपरमेऽपि तद्वामितया ये ते तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि वा सर्वदुःखान्यर्थाथ- प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, 'महे सिणो 'ति महर्षयो महैषिणो वा प्राग्वन्महामुनय इति सूत्रार्थः॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तमिति २८ श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी० शिष्य • मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तम् ॥
Jain Education International
→→→→>0<
For Private & Personal Use Only
मोक्षमार्ग
गत्य० २८
॥५६९॥
v.jainelibrary.org