________________
COMCHOCOCOCONSCIC0000-0
उपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनः 'जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वा समुच्चये, यथैतत्पश्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह-'एतद्' अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्त-विरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रमिति नैरुक्तो विधिः, आह-वक्ष्यति"चरित्तेण णिगिण्हाति तवेण य वि(परि सुज्झति'त्ति' कथं न तेनास्य विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्वात् , भवति 'आख्यातं' कथितमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ सम्प्रति तपश्चतुर्थ कारणमाह
तवो अदुविहो वुत्तो, बाहिरऽभंतरो तहा । बाहिरो छब्विहो वुत्तो, एवमभितरो तवो ॥ ३४॥ | तपश्च द्विविधमुक्तं, 'बाहिर'त्ति बाह्यमाभ्यन्तरं, तथा तत्र बाह्यं षड्विधमुक्तमेव मिति-पड्डिधमाभ्यन्तरंतप उक्तमिति | सूत्रार्थः, भावार्थस्तु तपोऽध्ययन एवाभिधास्यते ॥ आह-एषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ?, उच्यते
नाणेण जाणई भावे, संमत्तेण य सद्दहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥३॥ 'ज्ञानेन' मत्यादिना 'जानाति' अवबुध्यते 'भावान्' जीवादीन् 'दर्शनेन च' उक्तरूपेण 'सहहित्ति श्रद्धत्ते चारित्रेण-अनन्तराभिहितेन 'निगिण्हाति'त्ति निराश्रयो भवति, पठ्यते च-'न गिण्हति'त्ति, तत्र 'न गृह्णाति' नादत्ते के कर्मेति गम्यते 'तपसा परिशुधति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अणण्हयफले तवे वोदाणफले"त्ति, इति सूत्रार्थः ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाह
Jnin Education
a
l
For Private & Personal Use Only
Kasw.jainelibrary.org