________________
Jain Education
एतच्च द्विधा - इत्वरं यावत्कथिकं च तत्रेत्वरं भरतैरावतयोः प्रथमचरमतीर्थकर तीर्थयोरुपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तत्र तद्यपदेशाभावात् यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया | अभावेन तव्यपदेशस्य यावज्जीवमपि सम्भवात्, तथा छेदः - सातिचारस्य यतेर्निरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेद रूपस्तद्युक्तोपस्थापना महात्रतारोपणरूपा यस्मिंस्तच्छेदोपस्थापनं भवेद्वितीयम्, तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं तचैतगाथाभ्योऽवसेयम् - "परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झमओ । अट्ठममिहमुकोसो इत्तो सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई छट्टाई दसमचरमगो होई । वासासु अट्ठमाई बारसपजंतगो ओ ॥ ३ ॥ पारणए आयामं पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्टिया य पइदिण करेंति एमेव आयामं ॥ ४ ॥ एवं छम्मासतवं चरिउं
१ पारिहारिकाणां तु तपो जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु भणितो धीरैः प्रत्येकम् ॥ १ ॥ तत्र जघन्यमपि ग्रीष्मे चतुर्थं षष्ठं तु भवति मध्यमतः । अष्टम इह उत्कृष्टमतः शिशिरे प्रवक्ष्यामि ।। २ ।। शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षास्वष्टमादि द्वादशपर्यन्तं ज्ञेयं ॥ ३ ॥ पारणके आचामाम्लं पञ्चानां प्रग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनं कुर्वन्त्येवमेवाचामाम्लम् ॥ ४ ॥ एवं पण्मासतपञ्चरित्वा परिहारिका अनुचरन्ति । अनुचरकेषु परिहारपदस्थितेषु यावत् पण्मासाः ॥ ५ ॥
For Private & Personal Use Only
v.jainelibrary.org