________________
उत्तराध्य.
मोक्षमार्ग
गत्य०२८
बृहद्धृत्तिः ॥५६७॥
बाह्यं त्वाह-'उववूह'त्ति, उपबृंहणमुपबृंहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणं च-अभ्युपगम(त)धर्मानुष्ठानं प्रति विपीदतां स्थैर्यापादनमुपबृंहास्थिरीकरणे, वत्सलभावो वात्सल्यं-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं तच प्रभावना च-तथा तथा ? खतीर्थोन्नतिहेतुचेष्टासु प्रवर्त्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचारा भवन्तीतिशेषः, एभिरेवाष्टभिराचार्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराधुपलक्षकं, यद्वा दर्शनस्यैव यदाचाराभिधानं तदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्खरूपमुपदर्शितं भवतीति मन्वान इदमाह
सामाइयऽत्थ पढमं छेदोवट्ठावणं भवे बितियं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥३२॥
अकसाय अहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥ समिति-साङ्गत्येनैकीभावेन वा आयो-गमनं, कोऽर्थः ?-प्रवर्तनं, समायः स प्रयोजनमस्य सामायिकं, तदस्य प्रयोजन"मिति (पा०५-१-१०९) ठक्, तच सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्येन खपरविभागाभावेन च सर्वत्र प्रवृत्तिसम्भवात् , यद्वा समो-रागद्वेषविरहितः स चेह प्रस्तावाचित्तपरिणामस्तस्मिन्नायो-गमनं समायः स एव सामायिकं, विनयादेराकृतिगणत्वात्स्वार्थिकः ठक, इदमपि सर्वसावद्यविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम् ,
॥५६७॥
in Eduent an inema
For Private & Personel Use Only
www.jainelibrary.org