SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५६५॥ Jain Education Inter | पपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः । विस्ताररुचिमाह - 'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः ' एक| त्वपृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा - यस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सवाहिं 'ति 'सर्वैः' समस्तैः 'नयविधिभिः' नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, 'चः' समुच्चये सईदृग् विस्ताररुचिरिति ज्ञातव्यो, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्- "सदहइ जाणति जतो" । क्रियारुचिमाह - दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुतरूपे तथा तपोविनये सत्याः - निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च - अविसंवाद्नयोगाद्यात्मकं | समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ? – दर्शनाद्याचारानुष्ठाने यस्य भावतो | रुचिरस्ति सः 'खलु' निश्चितं क्रियारुचिः, नामेति प्रकाशं, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्तत्यङ्गत्वख्यापनार्थम् । सङ्क्षेपरुचिमाह - अनभिगृहीता - अनङ्गीकृता कुदृष्टिःसौगतमतादिरूपा येन स तथा सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलः प्रवचने' सर्वज्ञशासने 'अणभिग्गहिओ य सेसेसु'त्ति अविद्यमानमभीति- आभिमुख्येन गृहीतं ग्रहणं - ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः, 'चः समुच्चये, अनभिगृहीतश्च के त्याह- 'शेषेषु' कपिलादिप्रणीतप्रवचनेषु संभवति हि जिनप्रवचनानभिज्ञो ऽपि | शेपप्रवचनानभिज्ञ इति तद्व्यवच्छेदार्थमेतत्, अयमाशयः-य उक्तविशेषणः सङ्क्षेपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण For Private & Personal Use Only मोक्षमार्ग गत्य० २८ ॥ ५६५॥ jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy