SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः। सूत्ररुचिमाह-यः । 'सूत्रम्' आगमम् 'अधीयानः' पठन् 'श्रुतेन' इति सूत्रेणाधीयमानेन 'अवगाहते' प्राप्नोति 'तुः' पूरणे सम्यक्त्वं, कीदृशा श्रुतेन ?-'अङ्गेन' आचारादिना 'बाह्येन' अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, 'सः' उक्तलक्षणो गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रुचेः। बीजरुचिमाह-एकेन' प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाईति सुब्ब्यत्ययाद् 'अनेकेषु' बहुषु 'पदेषु' जीवादिषु यः 'प्रसरति' व्यापितया गच्छति 'तुः' एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणं, क्वेव कः प्रसरति ?-उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति (ग्रन्थाग्रम् १४०००) तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेपु रुचिमान् भवति, स एवंविधो बीजरुचितिव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति । अभिगमरुचिमाह-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः-अभिधेयस्तमाश्रित्य 'दृष्टम्' उपलब्धं, किमुक्तं भवति ?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं| पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं, ततः 'प्रकीर्णकानि' उत्तराध्ययनादीनि 'दृष्टिवादः' परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थ, चशब्दादुपाङ्गान्यो Jain Education in For Private Personal use only How.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy