________________
उत्तराध्य. वृहद्वृत्तिः ॥५६४॥
DREGAOCALCORROACACK
आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुचये, ततो बन्धादयश्च, तथा 'रोचते'श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव मोक्षमार्गयोऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान् जीवाजीवादीनेव 'निसर्ग'इति निसर्गरुचिर्विज्ञेयः, स इति शेषः । अमुमे
गत्य०२८ वार्थ पुनः स्पष्टतरमेवाह-यः 'जिनदृष्टान्' तीर्थकरोपलब्धान 'भावान्' जीवादिपदार्थान् 'चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते 'खयमेव' परोपदेशं विना,श्रद्धानोल्लेखमाह|'एमेय'त्ति एवमेतद्यथा जिनदृष्टं जीवादि, 'नान्यथेति' नैतद्विपरीतं, चः' समुच्चये,स ईग्निसर्गरुचिरिति ज्ञातव्यः,निस-1 र्गेण रुचिरस्येतिकृत्वा,उपदेशरुचिमाह-एतांश्चैवानन्तरोक्तान् (तुः पूरणे) भावान्' जीवादीन् पदार्थान् 'उपदिष्टान्' | कथितान् ‘परेण' अन्येन श्रद्दधाति, कीदृशा परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थःअनुत्पन्नकेवलस्तेन, जयति रागादीनिति जिनः,औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु : प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्रणां, स ई किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः । आज्ञारुचिमाह-रागः' अभिष्वङ्गः 'द्वेषः' अप्रीतिः 'मोहः' शेषमोहनीयप्रकृतयः 'अज्ञान' मिथ्याज्ञानरूपं यस्य 'अपगतं' नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्ग- ॥५६४॥ विपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः' क्वचित्कुग्रहाभावाजीवादि तथेति प्रतिपद्यमानो मापतुषादिवत् सः 'खलु'।
in Educatan Inc
For Private & Personel Use Only
www.jainelibrary.org