SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ यते, इयं भावमङ्गीकृत्य यतना। उपयुक्तत्वमेव स्पष्टयितुमाह-'इन्द्रियार्थान्' शब्दादीन् 'विवर्य' तदनध्यवसानतः परिहत्य, स्वाध्यायं चैव 'चः' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः-न केवलमिन्द्रियार्थान् विवर्य किन्तु स्वाध्यायं चापि 'पञ्चधेति वाचनादिभेदतः पञ्चप्रकार, गत्युपयोगोपघातित्वात् , ततश्च तस्यामेवेर्यायां मूर्तिः-शरीरमाद्वयाप्रियमाणा यस्यासौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोक्ता, वचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीयी रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः ॥ सम्प्रति भाषासमितिमाह__कोहे माणे य माया य, लोभे य उवउत्तया। हासे भय मोहरिए, विगहासु तहेव य॥९॥ एयाई अट्ठ ठाणाई, परिवजित्तु संजओ । असावजं मियं काले, भासं भासिज पनवं ॥१०॥ | क्रोधे माने च मायायां लोभे च 'उपयुक्तता' क्रोधाधुपयोगपरता तदेका यतनेतियावत् , हासे 'भय'त्ति भये मौखये विकथासु तथैवोपयुक्ततेति सम्बन्धः, तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः,पार्श्ववर्तिनो वा प्रति प्राह-बधीत बधीतैनमित्यादि, माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभिस्तुल्य इति वक्ति, मायायां यथा परव्यंसनार्थमपरिचितस्थानवी सुतादौ भणति-नायं मम पुत्रो न चाहमस्य पितेत्यादि,लोभे यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कञ्चन तथाविधं कुलीनम Jan Education 1 For Private Personel Use Only Carrainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy