SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ तिथिहानिवृद्धि विचार ॥३॥ Jain Education Inter बंधिपूर्णिमावृद्धौ त्वं त्रयोदशीवृद्धिं कुरुषे शेषपूर्णिमासु च प्रतिपद इति कुत्र शिक्षितोऽसि ? यतः सर्वा अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एव इति यदुक्तं श्रीश्राद्धदिनकृत्ये 'छण्हं तिहीण मज्झमि का तिही अज्ज वासरे' इत्यादि, ताः सर्वा अपि तिथय आराध्या एवेति, अथ च 'चाउद्दस अट्टमुट्ठिपुण्णिमासिणीसु पडिपुन्नं' इत्यस्य व्याख्या. चतुर्दश्यष्टम्यौ प्रतीते, उदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कन्धसूत्रवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपम्, शतवार पंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठिवत् न तु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद् यत् क्रियानुष्ठानमाचरितं स चरितानुवादः सर्वैरपि यत् क्रियानुष्ठानं | क्रियते स विधिवादः, विधिवादस्तु सर्वैरपि स्वीकर्तव्य एव, न तु चरितानुवाद इत्यर्थतः सेनप्रश्ने कथितमस्ति, तस्मात् त्यज कदाग्रहं कुरु पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यौ, अन्यथा गुरुलोपीटको भविष्यसि इति दिक् । तथा श्राद्ध विधावपि तिथिस्वरूपं यत् प्रतिपादितमस्ति तदपि त्वं सावधानीभूय शृणु-तिथिश्व प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि चाउम्यासियवरिसे पक्खियपंचमीस नायघा । ताओ तिहीओजासिं उदेइ सूरो न अन्नाओ ॥ १ ॥ पूआ पञ्चक्खाणं पडिकमणं तह य नियमगहणं च । जीए उदेइ सूरो ती तिहीए उ कायव्वं ॥ २ ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ ३ ॥ पारासरस्मृतावपि आदित्योदयवेलायां, या For Private & Personal Use Only || 3 || www.jainelibrary.org
SR No.600019
Book TitleTithihanivruddhivichar
Original Sutra AuthorN/A
AuthorDevsuriji Gacch
PublisherDevsuriji Gacch
Publication Year
Total Pages8
LanguageSanskrit, Gujarati
ClassificationManuscript, Tithi, Jyotish, & Principle
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy