Book Title: Tithihanivruddhivichar
Author(s): Devsuriji Gacch
Publisher: Devsuriji Gacch

View full book text
Previous | Next

Page 1
________________ तिथिहानि वृद्धिविचार || 2 11 Jain Education Internati श्री विजयदेवीयानां पूर्णिमामावास्ययोवृद्ध त्रयोदश्या एव वृद्धिर्भवतीति मतपत्रकम् श्रीतिथिहानिवृद्धिविचारः ॥ अथ तिथिवृद्धिहानिप्रश्नोत्तरं लिख्यते । इन्द्रवृन्दनतं नत्वा, सर्वज्ञं सर्वदर्शिनम् । ज्ञातारं विश्वतत्स्वानां, वक्ष्ये शास्त्रानुसारतः ॥ १ ॥ कस्यास्तिथेः क्षये जाते, का तिथिः प्रतिपाल्पते । वृद्धौ सत्यां च का कार्या, तत्सर्वं कथ्यते मया ॥ २ ॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते - आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्नप्रथमोल्लासे - ' उदयंमि जा तिही सा पमाणमिअरी कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ १ ॥ इति, तस्मादौदयिक्येव तिथिराराध्या, न परेति ॥ तथा - पूर्णिमामावास्ययोर्वृद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवहियमाणा आसीत्, केनचिदुक्तं श्रीतातपादाः पूर्वतनी माराध्यत्वेन प्रसादयन्ति तत् किमिति ?, अन उत्तरं, पूर्णिमामावास्ययोवृद्धौ औदयिक्येव तिथिराराध्यत्वेन विज्ञेया इति हीरप्रश्नद्वितीय प्रकाशे प्रोक्तमस्ति तस्मादौदयिक्येव तिथिरंगीकार्या, नान्येति, तथा सेनप्रनतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथाअष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति तावत्या एव आराधनं भवति तदुपरि नवम्यादीनां भवनात् संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात् १ आनन्दसूरीया पूर्णिमामावास्यावृद्धौ प्रतिपदं ववृधिरे, न तु सांप्रतीनोत्थापकवत् पर्वापर्वतिथ्योमिश्रतां पर्वद्वयमिश्रतां पर्वतिथेर्वृद्धि च चक्रुः For Private & Personal Use Only ॥ १ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8