SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् - स्वरूपेणानेकात्मताप्रसङ्गात् / नानाप्रतिपयसम्वेद्यमानोप्येक एवार्थ इति बाह्यदर्शिमतम् / तत एकस्य नानारूपसम्वेदनमयुक्तम्। नानारूप एवार्थ इति चेत् / न। यो का अभ्युपायेपि भेदेन न स्यादनुभवो द्वयोः / - . एकस्मिन्नेवार्थे द्वयोरनुभव इति न स्यात् / स्वाकारपरिसमाप्तत्वात् / यद्याकारान्तरमपि तत्रैवानुप्रविश्य प्रतिभासेत तदा स्यादेकत्वगतिः (1) अथवा न स्यादनुभवो द्वयोरिति वस्त्वर्थः। अथवा भेदेनैकैकपर्यवसानेन न स्यादनुभवः सर्वस्यानेकाकारानुभवप्रसङ्गात् / अदृष्टावरणानो चेन्न नामार्थवशा गतिः // 344 // यद्यदृष्टमावरणमिति न द्वयदर्शनं दृष्टेनैव तहि एकत्वप्रतिपत्तिारितेति कुत एकत्वे प्रमाणं तिमिरवच्चादृष्टम्भवेत् / चन्द्रद्वयमेव तत्रैकदर्शनं द्वितीय स्यादृष्टन वारणादेषापि कल्पना भवेत् / ततस्तिमिरसमानत्वाददृष्टस्य नार्थवशा गतिः। अदृष्टेनैव बाह्यार्थशून्यं विज्ञानं जन्यत इति किन्नाभ्युपगम्यते। अथादृष्टानयोग्यदेशावस्थितार्थप्रतिपत्तिवारणे कथं समर्थमिति वक्तव्यं / 12 तमनेकात्मकं भावमेकात्मत्त्वेन दर्शयत् / .. तददृष्टं कथन्नाम भवेदर्थस्य वेदकम् // 34 // -इति संग्रह- (श्लोकः) / अपि च / अभ्यासबलभावित्वमिष्टानिष्टार्थसम्विदः / दृश्यते दृष्टसाध्यत्त्वं कथमत्रावगम्यते // 972 / / तदेवादृष्टमितिचेत्सिद्धमेव समीहितं / वासनाबलसम्भूतं सर्वमेवेति सिद्धितः // 973 / / ननु नार्थ इष्टानिष्टतयावभासते 4 अर्थाकार एव कल्पना एव तथा भवन्ति / अत्रोच्यते / . इष्टानिष्टावभासिन्यः कल्पना नालंधीर्यदि'। 2 अरिष्टादावसन्धानं दृष्टन्तत्रापि चेतली // 346 // अरिष्टेन गृहीतानामक्षबुद्धिरप्यन्यथा दृष्टा / तस्माद, सदेतत् / तस्मात्प्रमेये" बाह्यपि युक्तं स्वानुभावः फलं / __ यतः स्वभावोस्य यथा तथैवार्थविनिश्चयः // 347 // अतो बाह्येप्यर्थे स्वसम्वेदनमेव फलम् / नासम्वेदनं तस्य स्वसम्वेदनानुप्रवेशात् / अत्रापि फले विषयाकारतव प्रमाणम्। यदाहाचार्यः। .. ___"यदा तु बाह्य एवार्थः प्रमेयस्तदा विषयाकारतवास्य प्रमाणम् / तथाहि। ज्ञानं स्वसम्वेद्यमपि स्वरूपमनपेक्ष्यार्थाभासतैवास्य प्रमाणम् / यस्मात्सोर्थस्तेन मीयते। यथार्थस्याकारः शुभादित्वेन' प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते। यावदाकारभेवेन प्रमाणप्रमेयत्त्वमुपचर्यते / " ......... * M. ..वरणात् स्यात् चेन्न . पी. 2 B. अर्थधीर्यदि ' अनिष्टादावसन्धानं-इति M. हे० पुस्तके। इष्ट-इति हे. पुस्तके तस्मात्प्रमेयबाह्यपि-इति हे पुस्तके / 6 B. टि-सुखादित्वेन 7 B. टि.- यावदन्तो ग्रन्थो दिग्नागीषः /
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy