SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 392 प्रमाणवात्तिक-भाष्यम् [ 31294 अत्रोच्यते / यदा.निष्पन्नतद्भाव इष्टोनिष्टोपि वा परः / विज्ञप्तिहेतुविषयस्तस्याश्चानुभवस्तथा // 336 // तदा तोनिष्पन्नतद्भावस्याऽभावादनुभवस्यैव सम्वेदनं नीलात्मस्वाद्यतस्तस्यास्तथैव नीलादित्वेनैवानुभव इति स्वसम्वेदनमेतत्परमार्थतो नार्थसम्वेदनम् / अर्थत्वेनानुभवेपि स्वप्नसम्वेदनवत् / / यदि वाऽर्थसम्वेदनमेव फलम् / यतः। यदा सविषयं ज्ञानं ज्ञानाशेर्थव्यवस्थितेः / तदा य आत्मानुभवः स एवार्थविनिश्चयः // 340 // यः पुनरपरं बाह्यं न कल्पयति ज्ञानाम एव बाह्यतया तेनावसीयते / तदा य एवात्मनो ज्ञानाकारस्यानुभवः तथैव वासनानियमादर्थ इति निश्चयस्तदा निश्चयबलादर्थसम्वेदनं फलमिति व्यवस्थाप्यते। तदा विज्ञान वा दे प्यर्थसम्वेदनं फलं / तदा ग्राह्याकारः प्रमेयं / ग्राहकाकारः प्रमाणं तत्सम्वेदनफलं / अथवा स एवार्थ इति प्रतीयते। तस्य च सम्वेदनत्वात्सम्वेदनमेव फलम् / अपि च / बाह्यमर्थमभ्युपगच्छतामपि स्वसम्वेदनमेव फलं / यतः ज यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते / इष्टोऽनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः // 341 // नहि सम्वेदनस्यान्यथात्वे वस्त्वन्यथेति (वक्तुं) शक्यम् / तस्मात्सम्वेदनानुसारेणैवार्थव्यवस्थितेः तदभिन्नयोगक्षेमत्वाद्वाह्यवेदनं स्वसम्वेदनमेव। तेनोपचारात् बाह्यवेदनमुच्यते। यतः। यदीष्टाकार आत्मास्य ज्ञानस्य अन्यथा चानुभूयतेर्थः / इष्टोनिष्टो वा। इष्टाकारेणानिष्टाकारेणापीष्टस्तदा तेन भवत्यर्थः प्रवेदितो मुख्यवृत्याऽन्यथा तूपचार एव। तस्मात्स्ववेदनमेव फलं बाह्येप्यर्थ इति दर्शयति / ननु सत्यतीर्थसम्वेदनमेव युक्तम् / तस्य भावादसति त्वगत्या स्वसम्वेदनं युक्तं / / तदसत् / 2010 / दस विद्यमाने पि बाहोर्थे यथानुभव एव सः / * निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः // 342 // नहि विज्ञानवादेपि स्वसम्वेदनमगत्याभ्युपगम्यतेऽपि तु तस्यैव सम्वित्तः। अगत्यात्वङ्गीकरणे बाह्य एवार्थः किमनङ्गीकृतः। यतः / यदि बाह्यं न विद्येत कस्य सम्वेदनम्भवेत् / ) यद्यगत्या स्वरूपस्य बाह्यस्यैव न किम्मतं // 34 // सदृश्यगतिः। तस्मात्स्वरूपसम्वेदनमेव दृश्यत इति वक्तव्यं मागतिः। तत्र यदि बाह्येप्यर्थे स्वसम्वेदनमेव दृश्यते तदेव भवतु / अर्थसंवेदनन्तु न युक्तमिति परित्यज्यते / स्वरूपेण हि वित्तीनां भिन्नत्वात्प्रतिपुरुषं नानाकारवेदनं युक्तं / नत्वर्थस्य नानाकारवेदनं . 11. पाना 1 1 M. B. ०मेव
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy