________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશરિતલેખ [319 मुअ-भोजमुखाम्भोजवियोगविधुरं मनः / श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती // 9 // देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां __दूरादर्थी विरमति बत! द्वारतो वारितः सन् / दिष्टयै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला // 10 // उत्कर्षोऽयमथापकर्षविषयः सद्भ्यो न शकामहे ये चाऽरोचकिनः सदा कृतधियस्तेभ्यस्तु बद्धोऽञ्जलिः। पतस्थानुगुणोपमानरसिका दाने दमे पौरुषे किं कुर्मो मतिरन्यमेति न समुत्कम्पाऽपि चम्पाधिपे // 11 // अन्ये वाचि परे क्रियासु सचिवाः सन्त्येव राजाङ्गणे शङ्के यैरनुशीलितं गुरुकुलं मा साहसाः पक्षिणः / आशाराजसुतस्तु स स्तुतिपदं श्रीवस्तुपालः सता मेकः कर्मणि वाचि चेतसि समुजागतिं यः कार्यिषु // 12 // पालने राजलक्ष्मीणां लालने च मनीषिणाम् / अस्तु श्रीवस्तुपालस्य निरालस्यरतिर्मतिः // 13 // // एतानी पण्डितआमभ्रातृपण्डितदोदरस्य // छ // प्रशस्तिलेखाङ्क-८ स्वस्ति श्रीभूमिसीमाविपिनपरिसरात् क्षीरनीराब्धिनाध[ :] पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं वोधयत्यादरेण / अस्यामास्माकपच्यां कुपुरुषजनितः कोऽपि चापल्यदोषो निःशेषः सैष लोकम्पृण] गुण ! भवता मूलतो मार्जनीयः // 1 // -पं० जगसीहस्य // प्रशस्तिलेखाङ्क-९ कलिकवलनजाग्रत्पाणिखेलत्प्रतापधुतिलहरिनिपीतप्रत्यनीकप्रतापः / जयति समरतत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः // 1 // त्वं जानीहि मयाऽस्ति चेतसि धृतः सर्वोपकारवती, किं नामा? सविता, न, शीतकिरणो, न स्वर्गिवृक्षो, न हि / पर्जन्यो, न हि, चन्दनो, न हि, ननु श्रीवस्तुपालः, त्वया ज्ञातं सम्प्रति, शैलपुत्रि-शिवयोरित्युक्तयः पातु वः // 2 // सारस्वताऽम्भोनिधिपार्वणेन्दुः श्रीवस्तुपालः सचिवाधिराजः। चिरं जयत्वेष सहाऽनुजन्मा सपुत्रपौत्रः सपरिच्छदश्च // 3 // Jain Education International For Private & Personal Use Only www.jainelibrary.org