________________ 18] જ્ઞાનાંજલિ श्रीमन्त्रीशवतंस ! नूतनभवत्कीर्तिप्रवन्धावली नित्यव्यालिखनेन तालतरुषु च्छिन्नच्छदथेणिषु / कः स्यादस्य निसर्गदुर्गतकवित्रीमण्डलस्य श्रुते राकल्पः क्षितिकल्पवृक्ष ! न यदि स्वर्णानि दद्याः सदा // 12 // // एते ठ० लूणसीह सुत ठकर अरसिंहस्य // छ / प्रशस्तिलेखाङ्क-७ अमन्दपदनिस्यन्दपदप्रेमपचेलिमाः / वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि // 1 // सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो ( ? पे दृढे ) ___ जाता गूर्जरनिर्जरेन्द्रमहिषी गोपोपभोग्यैव भूः / कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात् सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः // 2 // लक्ष्मी नन्दयता, रति कलयता, विश्वं वशीकुर्वता, अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता / संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता, नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः // 3 // शेषाहिः सह शङ्करेण, शशिना राका, सरो मानसं हंसः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा / सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः // 4 // कस्तूरिकापङ्ककलङ्कितानि वक्त्राम्बुजानि द्विषदङ्गनानाम् / प्रक्षालयामास चिराय चारु यत्खड्गधारामलिनप्रवाहः // 5 // नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः / ऋते वियुक्तवैरिस्त्रीगण्डमण्डलपाण्डुताम् // 6 // असावाद्यः सर्गः शिवि वलि-दधीचिप्रभृतयो _ विधातुासेन व्यवसितवतो दातृविधये / कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः समासेनेदानी स्फुटमयममात्यैक तिलकः // 7 // सौभ्रानं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी येनाश्रावि नृशंसभार्गवभुजोपाख्यानवज कथा / किञ्चान्यत् तपसः सुतो नरपतीनाक्रम्य योष्टवान् पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् // 8 // Jain Education International For Private & Personal Use Only www.jainelibrary.org