________________ 80 किञ्च चतुर्मासीकृते स्तम्भनपुर-छायापुरी-भृगुकच्छनिकटग्रामग्रामीणग्रामनिविवत्सितझगडियाप्रभृतीनां श्रमणोपासका अतीवाभ्यर्थनां कृतवन्तः, स्तम्भननगरनिवासिनः पुनः पुनरायान्ति, अस्मिन् विषये श्रीमतां श्रीमती आज्ञैव प्रमाणम् / सपरिवाराणां पूज्यानां श्रीमतां विजयनन्दनसूरिकुञ्जराणां च तनुलताकुशलोदन्तमभिलषामि / किङ्कराहँ किमपि कार्य कृपयाऽऽदेश्यम् / शिक्षावचनसुधासारैः सिञ्चनीयोऽयं जनः / अनलनिधिनिधीन्दुज्ञापिते विक्रमाब्दे मधुबहुलनवम्यां मङ्गलेऽलेखि लेखः / बहुरसदरसातो लादिना किङ्करेण प्रतिवचनप्रतीक्षादत्तचित्तेन मङ्क्ष // 1 // वचनविरचनेऽस्मिन् गद्यपद्यानुयाते विनयपथमतीतं बाललीलानुविद्धम् / सकविकथितदोषं श्लेषलेशानुसारे किमपि च कठिनं वा क्षम्यमेतत् क्षमेशैः // 2 // Jain Education International For Private & Personal Use Only www.jainelibrary.org