________________
79
निरञ्जनशुभरत्नप्रभोद्योतलक्ष्मीविद्यापरमप्रभाधिकस्वयम्प्रभोल्लासिनाम् , सुखास्पदानां सूर्यादिकलाधरसुमङ्गलबुधेज्यकविमतल्लिकामन्दचरणग्रहसाधुसेवितानाम् । चेतनचिन्तामणीनां मानवकामगवीनां जङ्गमकल्पतरूणां तत्र भवतां शुभवतां भवतामकम्पानुकम्पासम्पाततो वयं पञ्चापि कुशलिनः। नानाचरणपचरणबहुलताऽपाकृतसंतापातः सन्निधानोद्यानावनित: प्रस्थितोऽपि भवदीयबाहुच्छायापरिगृहीततया नानाविधाश्चर्यनिधानानि मेदिनीदलानि विलोक्य तत्र तत्र जिनेन्द्रपादांश्च प्रणम्य सुखेनात्रागतवान् ।
४५
(४२) निरञ्जनं कलङ्करहितं शुभं यद् रत्नं तस्य यः प्रभोद्योतः किरणप्रकाशस्तस्य सकाशात, एवं लक्ष्मीविद्याया द्रव्योपार्जनकलाया या परमप्रभा परमविकासस्तस्याः सकाशात् अधिका या स्वयंप्रभा आत्मनैव न तु बाह्यभावेन प्रकाशनीया प्रभा तदुल्लासिनाम् , यद्वा निरञ्जनविजयस्य शुभंकरविजयस्य रत्नप्रभविजयस्य उद्योतविजयस्य लक्ष्मीप्रभविजयस्य विद्याप्रभविजयस्य परमप्रभविजयाधिकस्य स्वयम्प्रभविजयस्य च उल्लासिनां हर्षदायकानाम् । (४३) सुखानां दुःख-प्रतिकूलानाम् आस्पदानाम् पक्षे शोभनं खं गगनं तद्रूपास्पदानामिव । (४४) सूरय आदयो येषां पक्षे सूर्य आदि र्येषां ते सूर्यादयः; कलाधरा विज्ञानविशेषकुशलाः, पक्षे कलाधरश्चन्द्रः; शोभनानि मङ्गलानि यैर्येषां वा, पक्षे शोभनो मङ्गलो भौमो यत्र ते सुमङ्गलाः; बुधैरिज्याः पूज्याः, पक्षे बुधगुरू; कविमतल्लिका उत्तमकवयः, पक्षे उत्तमशुक्रः; अमन्दोऽमन्दस्य वा चरणस्य चारित्रस्य ग्रहो ग्रहणं येषां ते अमन्दचरणग्रहाः, एवंविधा ये साधवो मुनिजनास्तैः सेवितानाम्, पक्षे मन्दचरणः शनैश्चरः; ग्रहा उक्तस्वरूपा नव खेटास्तैः साधु सम्यक् सेवितानाम् । (४५) नानाविधा ये चरणपा मुनिवरास्तेषां चरणस्य चारित्रस्य या बहुलता अधिकता तया अपाकृतः सन्तापो यत्र ततः, पक्षे नानाविधा ये चरणपा वृक्षास्तेषां चरणैः शाखाभिः बहुलताभिरनल्पवल्लीभिः अपाकृतः सन्तापो यया ततः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org