________________
दधानानाम्
३८
४०
सदायशोभदङ्गाणां सुदैवधाम्नाम्, हृदयङ्गमां सच्चिदानन्दकनकमालामादधानानाम्, सुशीलजयपुण्यधुरन्धरविमलविद्यामोक्षनन्दप्रियमहोदयगुणसाधुजनासे वितपादपङ्केरुहाणाम्,
}
३५
78
Jain Education International
३६
३९
हिमांशुकलानां
शिवविशुद्धानन्दप्रेमकुमुदविबोधनकृताम्
(३५) आयश्च शोभा च आयशोभम् । सतः प्रधानस्य आयशोभस्य दङ्गाणां पत्तनानामाधाराणा - मित्यर्थः, यद्वा सदा यशांसि च भद्राणि च यशोभद्रम्, यद्वा यशोभद्रं यशोभद्रविजयं गतानाम् । पक्षे सद् आयशोभं यत्र तादृशानां दङ्गाणां पत्तनानामिव । (३६) शोभनं दैवं भाग्यं धाम तेजो येषां तेषां तथा, यद्वा शोभनानां देवानां देवविजयसम्बन्धिनां धाम्नामास्पदानाम्, नगरपक्षे शोभनानि दैवधामानि नृपसत्कमन्दिराणि देवतासत्कमन्दिराणि वा यत्र तादृशानाम् । (३७) हृदयदेशगतां मनोहरां वा । (३८) सन् यश्चिदानन्दो ज्ञानानन्दः स एव कनकमाला सुवर्णमयो हारः तां तथा, यद्वा पदैकदेशे पदसमुदायोपचारात् सन्त उत्तमा ये चिदानन्दविजयानन्दविजय- कनकविजयास्तेषां मालां पङ्क्ति समूहमिति यावत् । (३९) शोभनेन शीलेन जयेन पुण्येन च धुरन्धराः सुशीलनयपुण्यधुरन्धराः, विमलो विद्याया मोक्षस्य च य आनन्दः स प्रियो येषां ते विमलविद्यामोक्षानन्दप्रियाः, महोदया गुणा येषां ते महोदयगुणाः एवंविधा ये साधुजना उत्तमजनास्तैः, यद्वा सुशीलविजयेन जयानन्दविजयेन पुण्यविजयेन धुरन्धरविजयेन विमलानन्दविजयेन विद्यानन्दविजयेन मोक्षानन्दविजयेन प्रियङ्करविजयेन महोदयविजयेन गुणचन्द्रविजयेन च मुनिजनेन, आसेविते पादपङ्केरुहे येषां तेषां तथा । (४०) हिमांशुश्चन्द्रस्तद्वत् कलानां मनोज्ञानाम्, यद्वा हिमांशुना हिमांशुविजयेन कलानां मनोज्ञानाम्, पक्षे हिमांशोश्चन्द्रस्य याः कलास्तासामिव । (४१) शिवस्य मोक्षस्य विशुद्धो य आनन्दः तत्र यत् प्रेम तदेव कुमुदं चन्द्रविकासि कमलं तस्य विबोधनकृतां विकासकानाम्, यद्वा शिवानन्दविजय- विशुद्धानन्दविजय- प्रेमविजय कुमुदविजयेभ्यो विशिष्टबोधदायकानाम् । चन्द्रकलापक्षे शिवस्य महादेवस्य विशुद्धो य आनन्दः प्रेम च ते एव कुमुदे तयोः विबोधनकृतां विकासकानाम् ।
३७
For Private & Personal Use Only
2
www.jainelibrary.org