________________
77
२७
२५
२८
सुमित्रानन्दनानामपि अशत्रुघ्नानाम् , क्षमाकाशानां प्रशस्यवल्लभकलितानाम्, प्रज्ञाप्रकर्षतोषितवाचस्पति-तिलकानाम्, साँधुहंसानां सुमौक्तिकफलचञ्चूनामभिरामसन्मानसम्पदं गतानाम् , जयन्तं मेरुचितं सदाचारदक्षं
(२४) सुमित्रविजयस्य आनन्दसाधनानाम् , पक्षे सुमित्राया दशरथभार्याया नन्दनानां पुत्राणामपि । (२५) शत्रुघ्ननामक-सुमित्राभव-दशरथसुतभिन्नानाम् । विरोधपरिहारे शत्रुवधप्रवृत्तव्यतिरिक्तानाम् । (२६) क्षमया क्षमागुणेन काशन्ते प्रकाशन्त इत्यचि क्षमाकाशास्तेषां तथा, पक्षे क्षमा-पृथ्वी आकाशंगगनं तयोरिव । (२७) प्रशंसनीयवल्लभविजयसहितानाम् । पृथ्वीगगनपक्षे प्रकृष्टैर्महापरिमाणैः शस्यैः शसयोरैक्यात् सस्यैर्धान्यरूपै वल्लभैंर्नक्षत्रैः क्रमेण सहितानाम् । (२८) प्रज्ञाप्रकर्षेण तोषिता वाचस्पतितिलकाः प्राज्ञशिरोमणयो यैः, यद्वा तोषितौ तिलकविजयवाचस्पतिविजयौ यैस्तेषां; तथा विचक्षणत्वेनाय॑त्वविवक्षया वाचस्पतिशब्दस्य प्राग्निपातः । (२९) साधुहँस आत्मा येषां तेषां तथा, यद्वा साधुषु हंसा इव साधुहंसा उत्तमसाधव इत्यर्थः, तेषां तथा, पक्षे राजहंसानामिव । (३०) शोभनानि यानि मौक्तिकफलानि मोक्षफलानि तैः, यद्वा शोभनो यो मौक्तिको मौक्तिकर मोति )विजयस्तस्य फलैः सत्प्रयोजनैः विदितानाम् । विद्याचञ्चवदत्र चञ्चप्रत्ययः, राजहंसपक्षे शोभनानि मौक्तिकफलानि मुक्ताफलानि यत्र तथाविधाश्चञ्चवो येषां तेषां तथा । (३१) अभिरामा मनोहरा या सन्मानसम्पद् साक्षरकृतबहुमानविभूतिः, तां तथा, यद्वा अभियुक्तो यो रामो रामविजयस्तेन सहितो यः सन्मानो बहुमानयुक्तः सम्पद् सम्पद्विजयस्तं तथा, राजहंसपक्षे अभिरामं मनोहरं सत् उत्तमं मानसं देवसरोवररूपं पदं स्थानं गतानां प्राप्तानाम् । (३२) जयं विजयं तं जगत्प्रसिद्धं यद्वा जयन्तविजयम् । (३३) मे रुचितमभिप्रेतं, मेरुवन्निचितं मेरुविजयसहितं च । (३४) सदाचारे प्रचारे दक्षं निपुणं सदाचारयुक्तं दक्षविजयं च दधानानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org