________________
76
'विबुधाधिपानाममृतरसिकानां लावण्यलीलालयानां गीर्वाणगिरा गेयगुणगणानाम्, महावनभुवां कास्तूरामोददानदक्षाणाम्, विभक्तिघटितानां साधुपदानाम्, श्वेताम्बरमणीनां भव्यकमलविबोधकानाम्, भव्यमानसहितानाम्, प्रभावधनराजितानाम्, जीतबन्धुराणाम् , प्रसन्नवदनसोमसुन्दराणाम्,
२३
(१०) पण्डितेश्वराणाम् । पक्षे इन्द्राणामिव । (११) मोक्षरसिकानाम् । यद्वा अमृतो विजयामृतसूरिः रसिक: शुभाभिलाषचारी येषां तेषां तथा । इन्द्रपक्षे सुधारसिकानाम् । (१२) लावण्यस्य सौन्दर्यस्य लीलालयानां केलिनिकेतनानाम्, सौन्दर्यै काश्रयाणामित्यर्थः, इन्द्रपक्षेऽपि अयमेवार्थः, यद्वा लावण्यस्य विजयलावण्यसूरेः लीलाया विद्याविनोदादिरूपाया आलयानामाधाराणाम् । (१३) इन्द्रपक्षे सुराणां वचसा, अन्यत्र संस्कृतभाषया प्र. गीर्वाणविजयवाण्या च। (१४) महतोऽवनस्य रक्षणस्य, यद्वा महानां सदुत्सवानां अवनस्य रक्षणस्य च भुवां भूमिकानां कारणानामित्यर्थः, पक्षे विशालवनभूमिकानामिव । (१५) कास्तूरस्य प्र.कस्तूरविजयसम्बन्धिन आमोदस्य हर्षस्य, वनपक्षे कास्तूरस्य कस्तूरिकासम्बन्धिन आमोदस्य सुगन्धस्य, दाने क्षमाणाम्, वनपक्षे मृगविशेषघटितत्वं हेतुः । (१६) साधु पदं येषां तेषां तथा, पक्षे व्याकरणप्रसिद्धशुद्धपदानामिव । (१७) विशिष्टभक्तिगुणसहितानाम् । विशिष्टेन भक्तिविजयेन सहितानाम् । पदपक्षे स्त्यादिरूपविभक्तिसहितानाम् । (१८) श्वेताम्बरसम्प्रदाये सर्वोत्तमानाम् । पक्षे विशदगगनप्रकाशकानां रवीणामिव । (१९) भव्यप्राणिरूपकमलेभ्यो विशिष्टबोधदायकानाम्, यद्वा भव्यो यः कमलविजयस्तस्य विबोधकानाम् । रविपक्षे भव्यानि यानि कमलानि तद्विकासकानाम् । (२०) भव्यजनमनोहितकारकाणाम्, यद्वा योग्यमानविजयसहितानाम् । (२१) प्रकृष्टभावधनेन प्रभावरूपधनेन प्रकृष्टभावेन धनविजयेन च शोभितानाम् । (२२) जीताख्यव्यवहारविशेषेण जीतविजयेन च बन्धुराणाम् । (२३) प्रसन्नतायुक्तमुखरूपचन्द्रेण प्रसन्नमुखेन सोमविजयेन च मनोहराणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org