________________
75
अयि गुरुचरणा भगवन्तः ? पुरुषोत्तमानां सुदर्शनधराणाम्, लोकबान्धवानां सदातपोदयाञ्चितानाम्, कल्याणक्षमाधराणां सदानन्दनोद्यानभुवाम्, पाक्षिकधियाऽनालिङ्गितान्त - राणामपि विज्ञानबन्धुराणाम्, सदापद्यालापहारो ल्लसितान्तराणाम्,
(१) पुरुषेषु उत्तमानाम् । पक्षे कृष्णानामिव, लुप्तोपमा, बहुवचनं गौरव
प्रदर्शनार्थम्, एवमन्यत्रापि विज्ञेयम् । (२) सम्यग्दर्शनं शोभनं, विजयदर्शनसूरिं, शोभनानि दर्शनशास्त्राणि वा
विभ्रताम् । कृष्णपक्षे सुदर्शनं चक्रविशेष क्षायिकसम्यक्त्वं वा बिभ्रताम् । (३) निष्कारणजगद्वन्धूनाम् । पक्षे *सूर्याणामिव । (४) सदा तपसा दयया च सहितानाम् । यद्वा सदा अतपेन शान्तेन उदयेन
विजयोदयसूरिणा अञ्चितानां पूजितानाम् । सूर्यपक्षे सता विद्यमानेन उत्तमेन
आतपस्य आतपनामकर्मण उदयेनाञ्चितानां सहितानाम् ।। (५) कल्याणं क्षमा च दधानानाम् । यद्वा कल्याणमया ये क्षमाधराः साधवस्तान्
दधानानाम् । पक्षे सुवर्णपर्वतानामिव मेरूणामिवेत्यर्थः । (६) सतां आनन्दनस्य-आनन्दस्य यद् उद्यानम्-ऊर्ध्वगमनम् उन्नतिरिति यावत्,
तद्धवां तत्कारणानामित्यर्थः, यद्वा सदा नन्दनस्य विजयनन्दनसूरेः
उद्यानभुवाम् उन्नतिकारणानाम् । मेरुपक्षे सदा नन्दनकाननास्पदानाम् । (७) पक्षिज्ञानेन, विरोधपरिहारे तु पक्षपातधिया एकान्तवादधिया वा । (८) पक्षिज्ञानबन्धुराणाम्, विरोधपरिहारे तु विशिष्टज्ञानबन्धुराणां विजयविज्ञा. नसूरिबन्धुराणां चेति । (९) सतां या आपद्माला आपत्पङ्क्तिस्तस्या अपहारे उल्लसितं हृदयं येषां तेषां
तथा, यद्वा सदा पद्मस्य विजयपद्मसूरेः आलापहारैः सुन्दररचनारचितगेयैः उल्लसितं हृदयं येषां तेषां तथा । पदान्तस्थस्य तृतीयस्य पञ्चमे परे विकल्पेन पञ्चमो भवतीति दत्वमेवात्रादृतम् ।
सूर्यशब्देन चात्र लोकप्रसिद्ध्या आधाराधेययोरभेदोपचारेण वा पार्थिवमणिमयं तद्विमानं विवक्षितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org