________________ 28 अनुसन्धान 36 मूलगहति / मूले-कलशस्य मूलदेशे ग्रहाः - सूर्यादयो यस्य तत् / तथा कण्ठेगलस्थाने निधयो नव नैसर्पकाद्याः समयप्रसिद्धा यस्य तत् / तथा चत्वारः प्रतिहारद्वारपालाः कुमुदा 1 ऽञ्जन 2 वामन 3 पुष्पदन्ताख्या 4 यस्य तत् / तथा चत्वारो वीरा माणिभद्र 1 पूर्णभद्र 2 कपिल 3 पिङ्गलाख्या 4 यस्य तत् ईदृशम् / ततो विद्यादेव्यः षोडशापि 'या रोहिण्यै नमः, नपा प्रज्ञप्त्यै नमः इत्यादि परितश्चक्रं लिखेत् / शासनसुरा(रा)श्च चक्रस्य दक्षिणदिशि लिखेत् / शासनदेवी (वी:) वामदिशि लिखेत् / तथा चक्रस्य मुले पतद्ग्रहाधः 'मुआदित्याय नमः' इत्यादिनवग्रहाणां नामानि लिखेत् / कण्ठे च वाम-दक्षिणतो नवाऽपि कलशान् कृत्वा तदुपरि नैसर्पकाय नमः' इत्यादि लिखेत् / तथा चतसृषु दिक्षु क्रमेण कुमुद 1 अञ्जन 2 वामन 3 पुष्पदन्तान् 4 लिखेत् / तथा माणिभद्रादींश्चतुरो वीरानप्येवं दिक्षु लिखेत् // 10 // दिसिवालखित्तवालेहिं ति द्वितीया गाथा / दिक्पालैर्दशभिः इन्द्रा-ऽग्नियम-नैर्ऋति-वरुण-वायु-कुबेरे-शान-ब्रह्म-नागनामभिः क्षेत्रपालेन च सेवितम् / ततो(त्र) दशसु दिक्पालेष्वष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत् - इन्द्राय नमः' इत्यादि / ऊध्र्वं तु 'मुंब्रह्मणे नमः', अधः 'नागाय नमः' / निजदक्षिणभागकोणे 'नक्षेत्रपालाय नमो' लिखेदिति गाथाद्वयार्थः / तथाप्यस्य लिखने सम्यविधिश्चाऽस्याऽऽम्नायविन्मुखाद् यथालिखितचक्राद्वाऽवसातव्यः ||11|| एयं च सिद्धचक्कं कहिअं विज्जाणुवायपरमत्थं / नाएण येण सहसा सिझंति महंतसिद्धीओ // 12 // एयं चेत्यादिगाथा / कण्ठ्या / नवरं विद्यानुवादो नाम नवमं पूर्वं, तस्य परमार्थरूपं रहस्यभूतमित्यर्थः // 12 // इति श्रीमन्नागपुरीयतपागच्छनायक सुविहितशिरशेखर श्रीरत्नशेखरसूरिविरचितायां श्रीश्रीपालराजा(ज)कथा यां] सिद्धचकयन्त्रोद्धारगाथाद्वादशकस्य व्याख्या संक्षेपतो व्यधायि भ० श्रीचन्द्रकीर्तिसूरिभिः // छ / / Jain Education International For Private & Personal Use Only www.jainelibrary.org