________________
June-2006
27
बीजा:- उसायुक्ताः- अङ्गा अर्हत्पादुकाभ्यो नमः १ इत्यादिकास्तत्र लिखेदित्यर्थः
1॥७॥
रेहादुगकयकलसा-यारामिअमंडलं व तं सरह । . चअदिसि विदिसि कमेणं जयाइ-जंभाइकयसेवं ॥८॥
रेहादुगत्ति । रेखाद्विकेन यन्त्रार्द्ध भागाद् वाम-दक्षिणनिर्गतान्योन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत् कलशाकारममृतमण्डलं तदिव स्मरत कलशाकारं लिखेदित्यर्थः । किविशिष्टं यन्त्रम् ?, चउदिसित्ति । चतुर्दिक्षु विदिक्षु च क्रमेण जयादिभिश्चतसृभिः जया १ विजया २ जयन्ती ३ अपराजिता ४भिः तथा जम्भादिभिः जम्भा १ थम्भा २ मोह! ३ अन्धाभिः ४ कृता सेवा यस्य तत् । तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिकाश्चाज्ञे(ग्ने)यादिविदिक्षु लिखेत् ॥८॥
सिरिविमलसामिपमुहा-हिडायगसयलदेवदेवीणं ।
सुहगुरुमुझउ जाणिअ ताण पयाणं कुणह झाणं ॥९॥ सिरिविमलसामित्ति गाथा । श्रीविमलस्वामीतिनाम्ना श्रीसिद्धचक्राधिष्टायकस्तत्प्रमुखा येऽधिष्टायका देवा देव्यश्चक्रेश्वर्याद्यास्तासां ध्यानं सुगुरुमुखाद् ज्ञात्वा ताणत्ति-तत्सम्बन्धिनां पयाणं ति- मन्त्रपदानां ध्यानं कुरुत । एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत् । ' श्रीविमलस्वामिने नमः' इत्यादि लिखेत् ।।९।।
तं विज्जादिवि-सासण-सुर-सासणदेविसेविअदुपासं । मूलगहं कंठनिहिं चउपडिहारं च चउवीरं ॥१०॥ दिसिवाल-खित्तवालेहिं सेविअं धरणिमंडलपईवं ।
पूअंताण नराणं नूणं पूरेइ मणइ8 ॥११॥ तं विज्जादिवित्ति गाथा । तथा दिसिवालखित्तवालेहिति गाथा-युग्मस्य व्याख्या । तत् सिद्धचक्र-कर्तृ, पूजयता-नराणां नूनं-निश्चितं मनइष्टमनसोऽभीप्सितं पूरयति । कथम्भूतं तत् ?, विद्यादेव्यः षोडश रोहिण्याद्याः । शासनसुरा गोमुखयक्षाद्याः । शासनदेव्यश्चक्रेश्वर्याद्याः । ततो विद्यादेवीभिः शासनसुरैः शासनदेवीभिश्च सेवितौ द्वौ पाश्वौँ वाम-दक्षिणौ यस्य तत् । पुनः कीदृशम् ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org